SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ प्रज्ञप्तिः ६ शतके उरेशः८ रत्नप्रभाद्य भावः सू०२४८ वीकायस्यापि निषेधो वाच्यः स्यात्, पृथिव्यादिष्वेव स्वस्थानेषु तस्य भावादिति, सत्यं, किन्तु नेह यद्यत्र नास्ति तत्तत्र सर्व निषिध्यते व्याख्या | मनुष्यादिवद्, विचित्रत्वात् सूत्रगतेः, अतोऽसतोऽपीह पृथिवीकायस्य न निषेध उक्तः, अप्कायवायुवनस्पतीनां त्विह घनोदध्यादिभावेन भावान्निषेधाभावः सुगम एवेति, 'नो नाओ'त्ति नागकुमारस्य तृतीयायाः पृथिव्या अधो गमनं नास्तीत्यत एवानुमीयते, 'नो अअभयदेवी |सुरो नो नागो'ति, इहाप्यत एव वचनाच चतुर्थ्यादीनामधोऽमुरकुमारनागकुमारयोर्गमनं नास्तीत्यनुमीयते, सौधर्मेशानयोस्त्वया वृत्तिः धोऽसुरो गच्छति चमरवत्, न नागकुमारः अशक्तत्वात्, अत एवाह-'देवो पकरेई'इत्यादि, इह च बादरपृथिवीतेजसोनिषेधः ॥५०८॥ सुगम एवास्वस्थानत्वात्, तथाऽब्वायुवनस्पतीनामनिषेधोऽपि सुगम एव, तयोरुदधिप्रतिष्ठितत्वेनाब्वनस्पतिसम्भवाद्, वायोश्च सर्वत्र | भावादिति । 'एवं सणंकुमारमाहिंदेसुत्ति इहातिदेशतो बादराब्वनस्पतीनां सम्भवोऽनुमीयते, स च तमस्कायसद्भावतोऽवसेय, इति । 'बंभलोयस्स उवरि सव्वहिंति अच्युतं यावदित्यर्थः, परतो देवस्यापि गमो नास्तीति न तत्कृतबलाहकादेर्भावः, 'पुच्छियव्वो यत्ति बादरोऽप्कायोऽग्निकायो वनस्पतिकायश्च प्रष्टव्यः, 'अन्नं तं चेव'त्ति वचनानिषेधश्च, यतोऽनेन विशेषोक्तादन्यत्सर्व पूर्वोक्तमेव वाच्यमिति सूचितं, तथा ग्रेवेयकादीपत्प्राग्भारान्तेषु पूर्वोक्तं सर्व गेहादिकमधिकृतवाचनायामनुक्तमपि निषेधतो ऽध्येयमिति ॥ अथ पृथिव्यादयो ये यत्राध्येतन्यास्तां सूत्रसङ्ग्रहगाथयाऽऽह-'तमुक्काय'गाहा, 'तमुक्काए'त्ति तमस्कायप्रकरणे प्रागुक्त 'कप्पपणए'त्ति अनन्तरोक्तप्सौधर्मादिदेवलोकपञ्चके 'अगणी पुढवी य'त्ति अग्निकायपृथिवीकायावध्येतव्यो-'अस्थि णं |भंते ! बादरे पुढविकाए बादरे अगणिकाए !, नो इणडे समढे, नण्णत्थ विग्गहगतिसमावन्नएणं' इत्यनेनाभिलापेन । तथा 'अगगणिति अग्निकायोऽध्येतव्यः 'पुढवीसुत्ति रत्नप्रभादिपृथिवीसूत्रेषु, 'अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे बादरे ।।५०८॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy