________________
६ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४५॥
उद्देशः ९ वेदननिर्जरासंबन्धः मृ०२२८
केइ पुरिसे तत्तंसि अयकवल्लंसि उदगबिंदू जाव हंता विद्धंसमागच्छह, एवामेव गोयमा! समणाणं निग्गंथाणं जाव महापज्जवसाणा भवति, से तेणटेणं जे महावेदणे से महानिजरे जाव निजराए ॥ (सूत्रं २२८)॥ _ 'से नृणं भंते ! जे महावेधणे'इत्यादि, 'महावेदनः' उपसर्गादिसमुद्भूतविशिष्टपीडः 'महानिर्जर' विशिष्टकर्मक्षयः, अनयोश्चान्योऽन्याविनाभूतत्याविर्भावनाय 'जे महानिज्जरे इत्यादि प्रत्यावर्त्तनमित्येकः प्रश्नः, तथा महावेदनस्य चाल्पवेदनस्य च मध्ये स श्रेयान् यः 'प्रशस्तनिर्जराकः' कल्याणानुबन्धनिर्जर इत्येष च द्वितीयः प्रश्नः, प्रश्नता च काकुपाठादनगम्या, हन्ते त्यागु|त्तरं, इह च प्रथमप्रश्नस्योत्तरे महोपसर्गकाले भगवान् महावीरो ज्ञातं, द्वितीयस्यापि स एवोपसर्गानुपसर्गावस्थायामिति । यो महावे| दनः स महानिर्जर इति यदुक्तं तत्र व्यभिचारं शङ्कमान आह-'छट्ठी'त्यादि, 'दुधोयतराए'त्ति दुष्करतरधावनप्रक्रियं 'दुवामतराए'त्ति 'दुर्वाम्यतरकं' दुस्त्याज्यतरकलङ्क 'दुपरिकम्मतराए'त्ति कष्टकर्त्तव्यतेजोजननभङ्गकरणादिप्रक्रियम्, अनेन च विशेषणत्रयेणापि दुर्विशोव्यमित्युक्तं, 'गाढीकयाई'ति आत्मप्रदेशैः सह गाढबद्धानि सनसूत्रगाढबद्धसूचीकलापवत् 'चिक्कणीकयाईति मूक्ष्मकर्मस्कन्धानां सरसतया परस्परं गाढसम्बन्धकरणतो दुर्भेदीकृतानि तथाविधमृत्पिण्डवत् '(अ) सिढिलीकयाईति निधत्तानि | मूत्रबद्धाग्नितप्तलोहशलाकाकलापवत् 'खिलीभृतानि' अनुभूतिव्यतिरिक्तोपायान्तरेण क्षपयितुमशक्यानि, निकाचितानीत्यर्थः, विशेषणचतुष्टयेनाप्यतेन दुर्विशोध्यानि भवन्तीत्युक्तं भवति, एवं च 'एवामेवे त्याापनयवाक्यं सुघटनं स्याद् , यतश्च तानि दुर्विशोध्यानि | स्युस्ततः 'संपगाढ'मित्यादि 'नो महापज्जवसाणा भवंति'त्ति, अनेन महानिर्जराया अभावस्य निर्वाणाभावलक्षणं फलमुक्तमिति नापस्तुतत्वमित्याशङ्कनीयमिति । तदेवं यो महावेदनः स महानिर्जर इति विशिष्टजीवापेक्षमवगन्तव्यं, न पुनर्नारकादिक्लिष्टकर्मजीवापेक्षं,
॥४५॥