________________
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥४३६॥
सपदेसा विसेसाहिया भावादेसेणं सपदेसा बिसेसाहिया । तए णं से नारयपुत्ते अणगारे नियंठीपुत्तं अणगारं वंदह नमंसह नियंठिपुत्तं अणगारं वंदित्ता णमंसित्ता एयमहं सम्मं विणएणं भुजो २ खामेति २ त्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ || (सूत्रं २२० ) ।
'तेण 'मित्यादि, 'दव्वादेसेणं'ति द्रव्यप्रकारेण, द्रव्यत इत्यर्थः, परमाणुत्वाद्याश्रित्येतियावत् 'खेत्ता देसेणं' ति एकप्रदेशावगाढत्वादि नेत्यर्थः, 'काला देसेणं' ति एकादिसमयस्थितिकत्वेन 'भावादेसेणं' ति एकगुणकालकत्वादिना 'सव्यपोग्गला सपएसाबी' त्यादि, इह च यत्सविपर्ययसार्द्धादिपुद्गलविचारे प्रक्रान्ते सप्रदेशाप्रदेशा एव ते प्ररूपिताः तत्तेषां प्ररूपणे सार्द्धत्वादि प्ररूपितमेव भवतीति कृत्वेत्यवसेयं, तथाहि - सप्रदेशाः सार्द्धाः समध्या वा, इतरे त्वनर्द्धा अमध्याश्रेति, 'अनंत'ति तत्परिमाणज्ञापनपरं तत्स्वरूपाभिधानम् || अथ द्रव्यतोऽप्रदेशस्य क्षेत्राद्याश्रित्याप्रदेशादित्वं निरूपयन्नाह - 'जे दव्वओ अप्पएसे' इत्यादि, यो द्रव्यतोऽप्रदेशः परमाणुः स च क्षेत्रतो नियमादप्रदेशो, यस्मादसौ क्षेत्रस्यैकत्रैव प्रदेशेऽवगाहते, प्रदेशद्वयाद्यवगाहे तु तस्याप्रदेशत्वमेव न स्यात्, कालतस्तु यद्यसावेकसमय स्थिति कस्तदाऽप्रदेशोऽने कसमय स्थितिस्तु सप्रदेश इति, भावतः पुनर्यद्येकगुणकालकादिस्तदाऽप्रदेशोऽनेकगुणकालकादिस्तु सप्रदेश इति ॥ निरूपितो द्रव्यतोऽप्रदेशोऽथ क्षेत्रतोऽप्रदेशं निरूपयन्नाह - 'जे खेत्तओ अप्प से ' इत्यादि, यः क्षेत्रतोऽप्रदेशः स द्रव्यतः स्यात्सप्रदेशः, द्व्यणुकादेरप्येकप्रदेशावगाहित्वात्, स्यादप्रदेशः, परमाणोरप्येकप्रदेशावगाहित्वात्, 'कालओ भयणाए 'ति क्षेत्रतोऽप्रदेशो यः स कालतो भजनयाऽप्रदेशादिर्वाच्यः, तथाहि--एकप्रदेशावगाढः एकसमयस्थिकत्वादप्रदेशोऽपि स्यात्, अनेकसमयस्थितिकत्वाच्च सप्रदेशोऽपि स्यादिति, 'भावओ भयणाए'त्ति क्षेत्रतोऽप्रदेशो योऽसावे कगुणकालकत्वा
५ शतके उदेशः ८ समदेशादिः सू०२२०
। ४३६ ।।