________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
॥४२३॥
रेकत्वापत्तिः, न च तयोः सा स्वरूपभेदात् । 'सत्तमनवमेोहं फुसइति सर्वेण देशं सर्वेण सर्वमित्येताभ्यामित्यर्थः, तत्र यदा द्विप्रदेशिकः प्रदेशद्वयावस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति, परमाणोस्तद्देशस्यैव विषयत्वात्, यदा तु द्विप्रदेशिकः परिणामसौक्ष्म्यादेकप्रदेशस्थो भवति तदा तं परमाणुः सर्वेण सर्व स्पृशतीत्युच्यते, 'पच्छिमएहिं तिहिं फुमइ'त्ति त्रिप्रदेशिक - मसौ स्पृशंस्त्रिभिरन्त्यः स्पृशति, तत्र यदा त्रिप्रदेशिकः प्रदेशत्रयस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति परमाणोस्तदेशस्यैव विषयत्वात्, यदातु तस्यैकत्र प्रदेशे द्वौ प्रदेशौ अन्यत्रैको ऽवस्थितः स्वात्तदा एकप्रदेशस्थितपरमाणुद्वयस्य परमाणोः स्पर्शविषयत्वेन सर्वेण देशौ स्पृशतीत्युच्यते, ननु द्विप्रदेशिकेऽपि युक्तोऽयं विकल्पस्तत्रापि प्रदेशद्वयस्य स्पृश्यमानत्वात् ?, नैवं, यतस्तत्र द्विप्रदेशमात्र एवावयवीति कस्य देशौ स्पृशति ?, त्रिप्रदेशिके तु त्रयापेक्षया द्वयस्पर्शने एकोऽवशिष्यते, ततश्च सर्वेण देशौ त्रिप्रदेशिकस्य स्पृशतीति व्यपदेशः साधुः स्यादिति यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्वं स्पृशतीति स्यादिति || 'दुपएसिए ण' मित्यादि,, "तइयनवमेहिं फुसति यदा द्विप्रदेशिकः द्विप्रदेशस्थस्तदा परमाणुं देशेन सर्व स्पृशतीति तृतीयः, यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्वमिति नवमः | 'दुपरसिओ दुपएसिय' मित्यादि, यदा द्विप्रदेशिको प्रत्येकं द्विप्रदेशावगाढौ तदा देशेन देशमिति प्रथमः, यदा त्वेक एकत्रान्यस्तु द्वयोस्तदा देशेन सर्वमिति तृतीयः, तथा सर्वेण देशमिति सप्तमः, नवमस्तु प्रतीत एवेति, अनया दिशाऽन्येऽपि व्याख्येया इति || पुद्गलाधिकारादेव पुगलानां द्रव्यक्षेत्रभावान् कालतश्चिन्तयति, तत्र
परमाणुपोग्गले णं भंते ! कालतो केवचिरं होति ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेज्जं कालं, एवं जाव अणतपएसिओ । एगपदेसोगाढे णं भंते ! पोग्गले संए तस्मि वा ठाणेसु अन्नंभि वा ठाणे
५ शतके उदेशः ७ परमाण्वादेः
पर्शना
सू०११५
॥४२३॥