SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुतिः ३ तपोऽधिकारे ज्वलनोपम्यं तपसः ॐ5-5 व्याख्या-तावत् सर्वोऽपि संसारिजीवः कामभोगादिसम्भवानि सुखानि प्रार्थयते, अथ च रसेषु-मधुरादिषु गृद्धस्तत्कारणभूतं | न करोति विपुलं तपः । स चैवविधः सन् कीदृशो द्रष्टव्यः ? इत्याह-स नूनं कारणभूतैस्तन्तुभिर्विना अभिलाषमात्रेणैव पटं मृगयते । अयम्भावः-यथा स्वहेतुतन्तुसङ्घाताभावे पटो न भवेत् , तथा सुखान्यपि स्वकारणभूततपोविरहितानि न सम्भवन्ति, अतस्तदर्थिना तत्रैव यतितन्वमिति गाथार्थः ।। ८० ॥ पूर्वोपचितकर्मणामपि तप एवापगमहेतुरित्याहकम्माई भवंतरसं-चियाइं अइकक्खडाइं विखणेण । डझंति सुचिण्णेणं, तवेण जलणेण व वणाई ॥१॥ व्याख्या-कर्माणि भवान्तरसश्चितानि अति"कक्खडाणि" (कर्कपाणि)-दुई(दुर्भ)द्यान्यपि क्षणेन दह्यन्ते सुचीर्णेन तपसा, केन कानीव, ज्वलनेन वनानीवेति गाथार्थः ॥ ८२ ॥ अत्रार्थ दृष्टान्तमाह| होऊण विसमसीला, बहुजीवखयंकरा वि कूरा वि । निम्मलतवाणुभावा, सिझंति दढप्पहारिव्व ॥८॥ ____ व्याख्या-इह केचिद्विषमशीला-असदृशाचारा बहुजीवक्षयंकरा अपि क्रूरा अपि भूत्वा निर्मलतपोऽनुभावादृढप्रहारीव सिद्ध्य-18 न्तीत्यक्षरार्थः ।। ८२ ॥ भावार्थः कथानकेनोच्यते, यथाहि वसन्तपुरे अग्निशमविप्रपुत्रः क्रूरकर्मा मांसाशी मद्यपानलुब्धो दोषैः समं वृद्धिं गतोऽनर्थभीरुणा पित्रा निर्वासितोष्टव्यां गतऔरैर्मिलितो धाटीषु गतो न मुञ्चति बालं वृद्धं गां महिषीं वा, प्रहरत्येव । ततस्तैः कृतदृढप्रहारिनामा सेनापतौ मृते स एव सेनापतिः कृतः । अन्यदैकस्मिन् ग्रामे धाट्यां गतस्तत्र क्षुधितैश्चौरैर्दरिद्रविप्रगृहात्पायसस्थाली गृहीता । तड्डिम्भै रुदद्भिः स्नातुं गतस्य पितुर्नि ॥६५॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy