________________
पुष्पमाला
४ भावनाधिकारे विषयविपाके बन्धुयुग्मोदाहरणम्।
रुघुवृत्तिः
॥२४७॥
44th-ROWSE
लब्धकालको लग्नौ रत्नद्वीपम् । तत्र भ्रमन्तौ तद्वीपस्वामिन्याः क्षुद्रायाः देवतायाः रत्नमयं प्रासादं विलोक्य तत्र गतौ। तया सप्रणयं निजभर्तृत्वे स्थापितो दूरीकृताशुभपुद्गलौ। अन्यदा देवतया शक्रादेशेन जलधिशोधनार्थ गच्छन्त्या प्रोक्तं-भो भो ! यावदहमागच्छामि तावद्भवद्भ्यां प्रासादाद्दक्षिणमुद्यानं मुक्त्वाऽपरोद्यानेषु स्थेयमिति । तस्यां गतायां तौ अपरं सर्व विलोक्य कौतुकादक्षिणोद्यानं गतौ, तत्र शूलिकाभिन्नं कश्चित्पुरुषं क्रन्दन्तं दृष्ट्वा तत्कारणं पृच्छतः। सोऽवदत्-भो! भग्नपोतोऽहं फलकलग्नोवायातो देवतया बहुमानं दत्वा स्थापितः, तया समं भुक्ता भोगाः, अन्यदा तुच्छमपराधमुद्भाव्य क्षिप्तोऽहं विलपन् शूलायां । अन्येऽप्येवं बहवो व्यापादितास्तया नराः। ततो माकन्दीपुत्राभ्यां भीताभ्यामुक्तं वयमप्येवमेव तया सद्गृहीतास्तिष्ठामः, तत्किमस्माकं भावि', शूलापुरुषेणोक्तं-एकोऽस्त्युपायः, अहं जानामि । ताभ्यामुक्तं-भो महाभाग! प्रसादं कृत्वा वद, ततो भणितं तेन-पौरस्त्योद्याने प्रवररूपधारी शैलकयक्षोऽस्ति सम्यग्दृष्टिः, स चाष्टम्यां चतुर्दश्यां पूर्णिमायां अमावस्यां च 'कं पालयामि ? के तारयामि ?' इति भणति, यूयं च तदा तत्र गत्वा 'त्वमस्मान् पालय रक्षेति भणतः। ततस्स युष्मान् सुस्थान् करिष्यति, यदि देवीवाक्यं न करिष्यथेति । ततः पीयूषमिव तद्वचनमभ्युपगम्य तथैव कृतं ताभ्यां, यक्षेण 'कं तारयामी' त्यादि भणितं । 'इदानीं वयमेवाशरणास्ततोऽस्मान् पालय तारयेति भणितं । यक्षः प्राइ-करोम्येतत्परं मम पृष्टौ समारूढान् दृष्ट्वा समुद्रे सा क्षुददेवता समागत्य परुषैः स्निग्धमधुरैश्च वाक्ययुष्मच्चित्तं हरिष्यति, तद्यदि चित्ते कथमप्पनुरागं करिष्यथ तदा निजपृष्टेबिधूनयित्वा क्षेप्यामि। अथ तदपेक्षा न करिष्यथ तदा श्रीभाजनं करिष्यामि । अथ तौ द्वावपि 'यथा यूयं भणथ तथा करिष्याम' इति भगतः। ततो यक्षः प्रवरतुरगरूपं कृत्वा निजपृष्टो द्वावप्यारोप्य चलितः समुद्रमध्ये। अत्रान्तरे सा क्षुद्रदेवता ज्ञानेन विज्ञाय तत्रैव समुद्रमध्ये समागता प्राह-रे रे दुष्टा ?
॥२७॥