________________
पुष्पमाला
लघुवृत्तिः
४ भावनाधिकार प्रेमस्यासारतावा कूणिकदृष्टान्तर
॥२४५॥
RASAUCER--
अस्माकं नास्तिकता, सा कथं मोक्तव्या ?। गुरुराह-भद्र ! न किञ्चिदेतत् सति विवेके, किं कुलक्रमायातो व्याधिरिद्रयं वा न त्यागाई ? इति, किंवा कुलमकुलं वा?, प्राणिनामेकाकिनामेवानादौ भवे भ्रमणात्सर्वकुलेवृत्पादसम्भवाच्च । ततोऽसौ सञ्जाततत्त्वनिर्णयः प्रतिपद्य श्रावकधर्म प्रतिपाल्य च निरतिचारं पश्चात्पुरुषान्तरासक्तया सूर्यकान्ताभिधया भार्यया पारणके दत्तविषो ज्ञातव्यतिकरोऽप्यचलितचित्तोऽनशनं प्रतिपद्य समाधानेन मृत्वा सौधर्म कल्पे सूर्याभे विमाने समुत्पन्नः पूर्याभनामा देवः । तत्र चत्वारि पल्योपमान्यायुः पालयित्वा महाविदेहे सेत्स्यति, इति भार्यया सममपि विरसपरिणाम प्रेम ज्ञात्वा कस्तत्रापि प्रतिबन्धो विवेकिनाम् ।। |
इति सूर्यकान्ताऽऽख्यानकं समाप्तम् ॥ अशोकचन्द्रापरनाम्नः कूणिकस्य कथा कथ्यते, यथा-श्रीराजगृहे नगरे श्रीश्रेणिकराजपत्न्याश्चेलनाया गर्भदोषाद्भर्तुरन्त्रमणे दोहदोऽभूत , पूरितं तदन्धकारे कृत्रिमान्त्रैर्मन्त्रिणा, जातश्चोज्झितो दुष्टोऽयमिति तनयस्तया गृहोपवने, दृष्टः श्रेणिकराज्ञा, समर्पितो धाव्याः, कृतमशोकचन्द्र इति तन्नाम, तस्य चोज्झितस्य कुक्कुटेनाङ्गली मनाम् भक्ष्तिाऽऽसीत् , तत्पीडया रुदतोऽतिस्नेहेन क्लेददिग्धां
तां पिता चूषितवान् । प्रगुणीभूता च सा कूणा [सङ्कचिता] जाता, तद्द्वारेणासौं कूणिक इत्याकारितः। पश्चात्कूणिकाय राज्यमारं दित्सुना राज्ञा है। हल्लविहल्लाभ्यामष्टादशचक्रो हारः कुण्डलयुग्मं हस्तिरत्नं च दत्तं, अज्ञाततदभिप्रायम्योत्पन्नः कूणिकस्य मत्सरः, सामन्तान्सहायीकृत्य बद्ध्वा क्षिप्तश्चारके स राजा तेन, कशानां शतेन कदर्थयति च प्रतिदिनं क्रोधात् । अन्यदा भुञ्जानस्पोत्सङ्गोपविष्टेन तस्य सुतेन भाजने मूत्रितं मनागपसार्य भुक्तं तत्तेन, चेल्लनां च प्रत्युक्तं- हे मातर्दृष्टो ममापत्यस्नेहः । सा गद्गदवागाह- वत्स ! तव पितुर्गुरुतरस्नेहोऽभूत, तत्कलमनुभवतीदानीं। समाह-कथं ?, ततः कथितो वृत्तान्तस्ततो जावपश्चात्तापः स्वयमेव गृहीत्वा परशुं निगडखण्डनायें गतः
55453
॥२४॥