________________
PRO
पुष्पमाला लघुवृत्ति ॥२१२॥
भावनाधिकारे | गुरुगुणवर्णने सारणादीनां विशिष्टता
स्वाध्यायप्रत्युपेक्षणाभिक्षाटनोपधिसमुत्पादनं ३, प्रव्राजकाध्यापकरत्नाधिकादीनामपधिवहन विश्रामणाभ्युत्थानाविरूपा चतुथी ४। तदेवं दर्शितः प्रत्येकं चतुर्विधा अष्टावपि गणिसम्पद । अथ चतुर्विधा विनयप्रतिपत्तिः, तद्यथा-संयमतपःप्रभृतीनामाचरणकारापणस्थिरीकरणादिरूप आचारविनयः१, सूत्रवाचनव्याख्यानादिरूपः श्रुतविनयः२, मिथ्यादृष्टयादीनां सम्यक्त्वधर्मादिस्वीकार णादिलक्षणो विक्षेपणाविनयः३, कषायविषयादिभिर्दुष्टस्य तद्भावनिवर्तनादिरूपो दोषनिर्धातनाविनयः४। तदेवमेते सर्वेऽपि षट् त्रिंशद गुणा गुरोर्भवन्तीति गाथार्थः ॥ ३३० ॥
नन्वेते सम्पूर्णा गुणाः साम्प्रतं न सम्भवन्ति, तदसम्भवे च गुरोर्व्यवच्छित्तिप्रसङ्ग इत्याशझ्याह| कालाइदोसवसओ, एत्तो एक्काइगुणावहीणो वि।होइ गुरू गीयत्थो, उज्जुत्तो सारणाईसु ॥ ३३१ ॥ . व्याख्या-कालादिदोषवशतः, आदिशब्दात्क्षेत्रादिपरिग्रहः, इतः षट्त्रिंशद्गुणसमुदायादेकद्विव्यादिगुणैविहीनोऽपि गुरुभवति, यदि पुनगीतार्थ उद्युक्तश्च सारणादिष्वित्येतद्गुणद्वयं गुरोविशेषेणान्वेषणीयम् । सारणादीनां चैष विशेष:-"पम्हढे सारणा. | बुत्ता, अणायारस्स वारणा ॥ चुक्लाण चोयणा बुत्ता, निठुरं पडिचोयणा ॥१॥” इति गाथार्थः ॥ ३३१॥
अथ सारणायभावे दोषानाहजीहाए विलिहितो, न भद्दओ जत्थ सारणा नत्थि। दंडेण वि ताडंतो, भद्दओ सारणा जत्थ ॥३३२॥ । व्याख्या-अतिवत्सलतया गुरुः शिष्यं जिह्ययाऽपि लेढि-अवलेढि, शेषवात्सल्यातिशयोक्ति परमेवेदं विशेषणं, सोऽप्येव म्मृतो गुरुन भद्रको - न शोभनो, यत्र गुरौ सारणा नास्ति, उपलक्षणं चेदं वारणादिनां । दण्डेनापि ताडयन् स एव गुरुर्भद्रको, यत्र
AGRAAAAAAOREGAON
॥२१२॥