SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ पुष्पमालाप्रकरणम् । सम्पादकीयनिवेदनम् । सम्पादकीय निवेदनम्। भो भो विचारचतुरा विचक्षणचणाः पाठकप्रवराः ! समादीयतां भावत्के करपङ्केहे समय॑माणमेतदन्वर्थनामकमुपदेशमाले-18 | त्यपराभिधानं पुष्पमालाप्रकरणरत्नं । प्रणेतारश्चास्य मूलप्रन्थस्य स्वोपज्ञभवभावनाद्यनेकप्रन्थरत्ननिर्मापकाः श्रीमलधारगच्छनभोऽ. अणनभोमणयः श्रीमद्धेमचन्द्रसूरिपादाः । विवृतमप्येतत्स्वयमेव सूरिवरैः। तच्च सवृत्तिकं संशोध्य प्रकाशितं सततमागमादिसाहित्यप्रकाशनबद्धकक्षैः श्रीसागरानन्दसूरिभिः । सा च वृत्तिरतीव विस्तृता गहना चापि, अतो मन्दमेधसां नात्युपकारिणीति विभाव्येयं लघुवृत्तिस्तामेव वृहद्वृत्तिमुपजीव्य संक्षिप्ता सरला संक्षिप्ततरसंस्कृतकथानकान्विता च सन्दब्धा श्रीमत्साधुसोमगणिभिः । अस्यैका प्रति - तिप्राचीना शुद्धप्राया च एक्पथेऽवतीर्णा आचार्यप्रवरश्रीमजिनरत्नसूरिवराणामन्तिके शरनवाकेन्दु(१९९५)मिते वैक्रमे तीर्थाधिराजश्रीशत्रुजयस्य पवित्रछायावतिपादलिप्तपुरीयचातुर्मास्यां । तामवलोक्य स्वल्पमेधाविनामपि सहजबोधोत्पादिकेयमिति मत्वाऽस्या मुद्रणाभिलाषः समजनि मम हृदये। अतस्तदेव कर्तुमारब्धा मुद्रणाऱ्या प्रतिः, समापिता च कतिचिन्मासाभ्यन्तरे । ततः सुरेन्द्रनगरस्थ श्रीसक्सत्कचित्कोषीया प्रतिः प्राचीना शुद्धप्रायापि च सम्प्राप्ता श्लोकबद्धशत्रुजयमाहात्म्याद्यनेकपन्थप्रकाशने सततोद्यमिनां श्रीमतां मुनिप्रवरश्रीमन्मङ्गलविजयानां सान्निध्यतः । तस्याः प्रान्ते निम्नलिखिता पुष्पिकाऽस्ति संवत् १६३८ वर्षे जेष्ठवदिसप्तमीतिथौ रविवारे श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिविजयराज्ये श्रीविक्रमनगरे साध्वी प्रवर्तिनी सुवर्णलक्ष्मीशिष्यणी प्रवर्तिनी रत्नसिद्धि, तत्सिष्यणी प्रवर्तिनी लावण्यसिद्धिगणिनीप्रतिरियं मुंहती भगतादे विहरायितं स्वपुण्याय CिIEOCOCCASIOCALCCACC
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy