SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ पुष्पमाला लघुवृत्तिः ॥१०२॥ (यः कोबे जंड्डे य वहिए। तेणे रायवगारी य, उम्मंते अ असं ॥ १२४ ॥ [र]णत्ते जुंगिएँ इय । ओबद्ध य भए, सेहनिप्फेडिया इय ॥ १२५ ॥ व्याख्या - अत्र सप्ताष्टौ वर्षाणि यावद्वालः । सप्ततिवर्षाणामुपरि वृद्धः, षष्टिवर्षाणामुपरीति केचित् । न स्त्री न पुमान् नपुंसकं । स्त्रीभिर्भोगैर्निमन्त्रितोऽसंवृत्ताया वा स्त्रियोऽङ्गोपाङ्गानि दृष्ट्वा शब्दं वा मन्मनोल्लापादिकं तासां श्रुत्वा समुद्धृतकामाभिलाषोऽधिसोढुं न शक्नोति स क्कीब: ) । जङ्घस्तु त्रिधा - भाषया शरीरेण करणेन च, तत्र भाषाजडुत्रिधा - जलमूको मन्मनमूक एलकमूकः, अत्र जलनिमन इत्र बुडबुडायमानो यो वक्ति स जलमूकः, यस्य तु वदतः खच्यमानमिव वचनं स्खलति स मन्मनमूकः, यस्त्वेलक इवाव्यक्तं शब्दमात्रमेव करोति स एलकमूकः । शरीरजङ्गस्तु यः पथि भिक्षाटने वन्दनादिषु चातीव स्थूलादितयाऽशक्तो भवेत् । करणं क्रिया, तस्यां जडः, समितिगुप्तिप्रतिक्रमणप्रत्युपेक्षणादिक्रियामसकृदुपदिश्यमानामपि यो गृहीतुं न शक्नोति स इत्यर्थः । भगन्दरार्श कुष्ठादिरोगैर्यस्तो व्याधितः । चौर्यरतः स्तेनः । राजादिद्रोहकृद्राजापकारी । यक्षादिना प्रबलमोहोदयेन वा परवशतां नीत उन्मत्तः । अन्धोऽदर्शनः स्त्यानर्द्धिनिद्रोदयवान्वा । तथा दासीजातः अर्थेन वा क्रीतः ऋणादिव्यतिकरे च रुद्धो वा दास उच्यते । दुष्टो द्विधा- कषायदुष्टो विषयदुष्टश्च तत्र कषायदुष्टोऽत्युत्कटकषायः, विषयदुष्टोऽतीव परयोषिदादिषु गृद्धः । स्नेहाज्ञानादिना यथावस्थितवस्त्वनभिज्ञो मूढः । योऽन्येषां धनादिर्धारयति स ऋणार्त्तः । जातिकर्मशरीरादिभिर्दूषितो जुङ्गितः, तत्र छिम्पकमातङ्गादयोऽस्पृश्याः कुकुटादिपोषकाः स्पृश्याश्च जातिजुङ्गिताः, नखप्रक्षालनादिनिन्दितकर्म्मकारिणः कर्म्मजुङ्गिताः, करकर्णादिवर्जिताः कुब्जकाणपवादयश्च शरीरजुङ्गिताः। बोल बुड्ढे नपुंसे य, दासे दुहे य ढ य, ४ भावना ऽधिकारे सर्व बिल्क योग्याः पुरुषाः ॥१०२॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy