SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ SANSARACK चारित्रोदयवाचक-नामानस्तेष्वभुः फलसमानाः। श्रीवीरकलशसुगुरवो, गीतार्थाः परमसंविनाः तेभ्यो वयं भवामो, बीजाभास्तत्र सूरचन्द्रोऽहं । गणिपद्मवल्लभपटु-द्वितीयीको गुरुभ्राता ॥१९॥ अस्मत्तु हीरसार-प्रमुखा अडरकरणयः सन्ति । तेऽपि फलन्तु फलौघैः, सुशिष्य-रूपैः प्रमापटुमिः ॥२०॥ टीका-स्ववंशावलिकामभिधातुकाम आह-श्रीमदित्यादि 'श्रीमत्खरतरवरगणः'-ऐश्वर्ययुक्तः श्रेष्ठः खरतरनामा गच्छः, 'सुरगिरिसुरशाखिसनिमः समभूत् '-मन्दराचलोत्पन्नकल्पवृक्षसमानोऽजायत, 'तत्र'-पूर्वोक्त कल्पवृक्षे, 'जिनभद्रसरिराजः'-जिनभद्रनामा विपश्चित् वरः, 'असम:'-अद्वितीयः, 'प्रकाण्डोऽभवत्'-स्कन्धसमान आसीत् , 'ततः'-तत्पवात् , 'अथेति विनिश्चये, 'तत्र'-पूर्वोक्ते प्रकाण्डे, 'श्रीमेरुसुन्दरगुरुः'-श्रीमेरुसुन्दरनामाऽऽचार्यः, 'महीयाशाखाप्रायः'-बृहच्छाखासदृशः, 'बभूव '-अभवत् , कथम्भूतः श्रीमेरुसुन्दरगुरुः ? ' पाठकमुख्यः'-पाठकेषु प्रधानः, पुनः कथम्भूतः ? "श्रीक्षान्तिमन्दिरकः '-श्रियाः शान्तेश्वाऽऽलयः, तस्य ‘हर्षप्रियपाठकाः '-हर्षपाठकाः, प्रियपाठकाश्च, 'प्रतिलतामा अभवन् '-प्रतिशाखासमाना बभूवुः, कथम्भूता हर्षप्रियपाठकाः ? ' तार्किकऋषभाः '-नैयायिकेषु. श्रेष्ठाः, 'तस्याम्'-पूर्वोक्तायाम् प्रतिलतायाम्, 'इह'-अस्मिन् संसारे, 'चारित्रोदयवाचकनामानः'-चारित्रवाचकनाम्ना
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy