SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ * Antenant * * * 'अल्पधियाम्'-अल्पबुद्धीनाम् जनानाम् , सम्बन्धे, 'इदमेव'-ममोक्तमेव, 'शास्त्रं समस्तु'-शास्त्रं भवेत् , शास्त्रं भवितुम् शक्नोतीतिभावः, कुतः' इत्याह-यत इत्यादि 'यतः'-यस्मात् कारणात् , ' अथ '-शब्दो विनिश्चये, 'अस्मात् शासनमस्ति'-ममोक्ताच्छास्तिर्भवति, शास्यतेऽस्मादिति शास्त्रमिति शास्त्रशब्दव्युत्पत्तेरल्पधियां सम्बन्धेरस्मात्ममोक्ताऽपि शासनं भवतीति हेतोस्तेषाम् सम्बन्धे ममोक्तमपीदं शास्त्रं भवितुम् शक्नोतीतिभावः, पक्षान्तरेणाऽस्य शास्त्रत्वमाह-यदुक्तीत्यादिना 'वा'-अथवा, 'यत्'-कथनम् , 'उक्तिप्रत्युक्तिनियुक्तियुक्तम् '-प्रश्नप्रतिवचननिर्योगोपेतम् भवति, 'तत्'कथनम् , ' अभियुक्ताः'-अभियोगिनः, शास्त्रप्रवीणा जना इत्यर्थः, 'शास्त्रं प्रणयन्ति'-शास्त्रं कथयन्ति, शास्त्रं मन्यन्त | इतिभावः ॥८॥ मूलम्-यद्वास्ति पूर्वेष्वखिलोऽपि वर्णा-नुयोग एतन्न्यगदन्विदांवराः। इयं तदा वर्णपरम्परापि, तत्रास्ति तच्छास्त्रमिदं भवत्वपि ॥९॥ टीका-पक्षान्तरेण पुनरस्य शास्त्रत्वमाह-यवेत्यादिना 'यद्वा'-अथवा, 'विदांवराः'-पण्डितप्रवराः, 'एतन्यगदन्'-एतत् कथितवन्तः, यत् 'पूर्वेषु'-चतुर्दशसु पूर्वेषु, ' अखिलोऽपि '-सर्वोऽपि, 'वर्णानुयोगोऽस्ति'-अक्षराणामनुयोजनं वर्त्तते, 'तदा'-तर्हि, एवं सतीतिभावः, 'तत्र'-पूर्वेषु, ' इयमपि '-ममोक्ताऽपि, 'वर्णपरम्परास्ति'-अक्षराणाम्पारम्पर्य विद्यते, 'तत् '-तस्मात् कारणात् , ' इदमपि '-ममोक्तमपि, 'शास्त्रं भवतु'-शास्त्रं स्यात् ॥९॥ *
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy