________________
मूलम्-सत्यं मुने ! ज्ञानजदर्शनोद्भवा, सैषा क्रिया सिद्धिगतेषु नास्ति ।
कथं यतः सैषु यदा तु लोके, कैवल्यलब्धिः समभूत्तदानीम् ॥ ३७ ।। टीका-अस्योत्तरमाह-सत्यमित्यादिना 'मुने!' हे साधो', 'सत्यमिति एतत्तव कथनं सत्यमस्तीत्यर्थः, यत् 'सा'-पूर्वोक्ता, 'एषा'--प्रसिद्धा, 'ज्ञानजदर्शनोद्भवा'-ज्ञानोत्पन्ना दर्शनोत्पन्ना च क्रिया, 'सिद्धिगतेषु'सिद्धि प्राप्तेषु, सिद्धेष्वितिभावः, 'नास्ति'-न विद्यते, अत्र हेतुमाह-कथमित्यादिना 'कथं'-कुतः ? यदि त्वमेवं ब्रूया यत | सिद्धेषु ज्ञानजदर्शनोद्भवा क्रिया कुतो नास्ति तर्हि शृण्वितिभावः, 'यतः'--यस्मात् कारणात् , 'तु' शब्दो विनिश्चये, |लोकेसंसारे, 'यदा'-यस्मिन् काले, 'कैवल्यलब्धिः'-कैवल्यप्राप्तिः, केवलज्ञानप्राप्तिरित्यर्थः, 'समभूत् '-अजायत, 'तदानीम'--तस्मिन्काले, 'एषु'-सिद्धेषु, 'सा'--ज्ञानजदर्शनोद्भवा क्रिया समभूत ॥ ३७॥ मूलम्-क्रिये इमे द्वे युगपत्समास्तां, ये ज्ञेयदृश्ये इह ते अभृताम् ।
ततो नजातौ किल सत्क्रियत्व-मभूत्तु सिद्धौ खलु निष्क्रियत्वम् ॥ ३८॥ १. केवलज्ञान | २. पुनरत्र नोदको :नोदयन्नाह-पूज्याः सिद्धा अपि सक्रिया भवन्ति, कथं ? यत उच्यते, सिद्धा जानन्ति | पश्यन्ति च तर्हि शानक्रियां च दर्शनक्रियां च कुर्वन्तीति शानदर्शनक्रियायाः सद्भावात् कथं निष्क्रियत्वमिति निष्क्रियाः सिद्धा इति
न घटते । नैवं यदैवात्र मनुष्यभवे सिद्धस्य केवलज्ञानमभूत्तदैव यज्बातव्यं यच्च द्रष्टव्यमासीत् तदैवाऽभूत् सिद्धत्वावस्थायां नवं पाकिमपि न जानाति न पश्यति सर्वातीतानागतवर्तमानभावानां केवललाभसमये एव ज्ञानाद्दर्शनाच्चेति सर्व सम्यक्तया ध्येयम् ।