________________
जैन
तत्वसार टीकायाम्
॥ १४८ ॥
समीपात्, भ्रमे 'मुक्ते ' - विनष्टे सति, ' एषः ' - पूर्वोक्तः, 'आत्मा' - जीवः, 'मुक्तो भवति ' - भ्रमरहितो जायते, 'इति सिद्धम् '-एतत् सिद्धिमुपगतम्, 'तु' - पुनः, ' ही 'ति चरणपूर्वौ, 'अस्मिन् मुक्ते- आत्मनि भ्रमरहिते सति, 'तदात्मनः 'पूर्वोक्तस्याऽऽत्मनः, 'च' पुनः, ' श्रीपरमात्मनः ' - परमेशस्य, ' अभेदो भवेत् ' - अभिन्नत्वं जायते ॥ ३१ ॥
मूलम् - यदानयोर्वीक्षत एकभावं, योगी तदात्मावगमी निगद्यते ।
स केवलज्ञानमयो मुनीश्वरः, कर्मक्रियाभ्रान्तिविमुक्त उक्तः ॥ ३२ ॥
टीका - तयोरभेदावगमे किं भवतीत्यादिना ' यदा यस्मिन्काले, ' योगी ' - योगाभ्यासकर्त्ता, 'अनयो: ' - आत्मपरमात्मयोः, 'एकभावं वीक्ष्यते ' - अभेदं पश्यति, 'तदा' - तस्मिन् काले, 'सः' - आत्मा, ' अवगमी निगद्यते ' - आत्मज्ञः कथ्यते, तदैव ‘ सः ’-योगी, ' केवलज्ञानमयः ' - केवलज्ञानयुक्तः, 'मुनीश्वरः' - मुनिराजः, तथा 'कर्मक्रियाभ्रान्तिविमुक्तः' - कर्मरहितः, क्रियारहितो भ्रान्तिरहितच, ' उक्तः ' -कथितो भवति, उच्यत इत्यर्थः ॥ ३२ ॥
मूलम् - यदा त्वयं मुक्त इति प्रसिद्ध स्तदा हि सर्वत्र ममत्वमुक्तः । घनं हि किं सैष मनःशरीर-सुखासुखज्ञानविमर्शशून्यः ॥ ३३ ॥
टीका - मुक्तप्रसिद्धौ किं भवतीत्याह-यदा त्वित्यादिना ' तु' - पुनः, ' यदा' - यस्मिन् काले, ' अयं ' - पूर्वोक्तो योगी, 'मुक्त इति प्रसिद्धः '-मुक्त इति नाम्ना प्रख्यातो भवति, तदा तस्मिन् काले, ' ही 'ति निश्चयेन, अयम् १. विचार ।
विंशतितमोऽधिकारः
॥ १४८ ॥