SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ जैनतस्वसार टीकायाम् विंशतितमोऽधिकार यत् ' अत्र'-अस्मिन्संसारे, 'मुक्त्यै '-मुक्त्यर्थ, 'ते मनोऽस्ति'-तव चित्तं विद्यते ।। २५ ॥ मूलम्-आकर्णय त्वं मयका निगद्य-मानं मुने ! मुक्तिपथं समर्थम् । सिद्धान्तवेदान्तरहस्यभूतं, गुरूपदेशादधिगम्य किश्चित् ॥ २६ ॥ टीका-प्रतिवचनविषयमाह-आकर्णयेत्यादिना 'मुने!' हे साधो !, 'गुरूपदेशात् '-गुरोरुपदेशेन, 'किमपि'स्वल्पमित्यर्थः, 'अधिगम्य '-ज्ञात्वा, 'मयका'-मया, 'निगद्यमानं '-कथ्यमानं, 'मुक्तिपथं '-मुक्तेर्मार्ग, त्वम् 'आकर्णय '-शृणु, कथम्भूतं मुक्तिपथम् ? 'समर्थ'-शक्तम् , मुक्तिप्रापणक्षममिति यावत् , पुनः कथम्भूतं ? 'सिद्धान्तवेदान्तरहस्यभूतं '-सिद्धान्तवेदान्तयोः सारभूतम् ॥ २६ ॥ मूलम्-मुक्ति समिच्छुर्मनुजः पुरस्तात्, करोतु चित्ते स विचारमेवम् । आत्माह्ययं योगिभिरेष शुद्धो, बुद्धश्च मुक्तश्च निरञ्जनश्च ॥ २७॥ इत्युच्यते तर्हि तु केन बद्धो, मुक्तस्त्वयं बद्ध्यत एष कस्मात् । ज्ञातं भ्रमेणेति यमूचुराद्याः, कर्मेति मोहेति भ्रमेत्यविद्या ॥ २८ ॥ १. ज्ञात्वा । २. मोहेत्यादाविति नैव विभक्त्यर्थस्योक्तत्वान्न विभक्तिर्यथा “श्रीरामेति जनार्दनेति जगतां नाथेति नारायणेत्या| नन्देति दयावरेति कमलाकान्तेति कृष्णेति वा । श्रीमन्नाममहामृताब्धिलहरीकल्लोलमग्नं मुहुर्मुह्यन्तं गलदश्रुनेत्रमवशं मां नाथ नित्यं कुरु १" इति श्रीभगवतः कवेरुक्तिः पद्यावल्यां तथाऽत्राऽपि । TAGRAॐ J॥१४६॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy