SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ तरवसार विंशतितमोऽधिकार टीकायाम् .१४५॥ KARANG - मूलम्-इतीयता सिद्धमिदं विदन्तो! यदात्मबोधान्न परोऽस्ति सिद्धये । हेतुस्ततोऽत्रैव यतध्वमध्वनि, येनाऽऽत्मनः स्थानमहो महोदये ॥२२॥ टीका-फलितमाह-इतीयतेत्यादिना 'विदन्तः !'-भो पण्डिताः!, 'इतीयता'-एतावता प्रबन्धेन, 'इदं'वक्ष्यमाणम् , ' सिद्धं '-सिद्धिमुपगतम् , यत् 'आत्मबोधात् '-आत्मज्ञानात् , 'परः'-भिन्नः, कोऽपि पदार्थः, 'सिद्धयेसिद्धिप्राप्तये, 'हेतुर्नास्ति'-कारणं न विद्यते, तस्मात् कारणात् , ' अत्रैवाऽध्वनि'-अस्मिन्नेव मागें, यूयम् ' यतध्वम् - यत्नं कुरुध्वम् , 'अहो'-इत्यामन्त्रणे, 'येन'-कारणेन, उक्तमार्गे यत्नवशादित्यर्थः, 'महोदये'-महत्युदये, मोक्ष इत्यर्थः, 'आत्मनः'-जीवस्य, 'स्थानं '-स्थितिः स्यात् ॥ २२ ॥ मूलम्-मुनीश ! साधूदित एष मुक्ते-र्मा! जिनेन्द्रागमयुक्तिसिद्धः । उत्सर्गनोत्सर्गहठाभिमुक्तः, श्रेयाश्रिये केवलराजयोगात् ॥२३॥ मुक्तेः सर्वदर्शनानुसारिमार्ग त्रयोदशश्लोकैराहपरं हि यः सर्वमतानुर्यायी, मार्गोऽस्ति मुक्तेद्रतमात्मदृष्टयै । अध्यात्मविद्याधिगमैकहेतुः, स मे निवेद्यः सरलः श्रमं विना ॥२४ ।। १. प्रबन्धेन । २. भो जानन्तः भो पण्डिता इत्यर्थः । ३. मोक्षे । ४. उत्सर्गापवादलक्षणैकान्तकर्तव्यतारूपहठरहितः, स्याद्वादाधिधित इत्यर्थः । ५. मोक्ष । ६. दर्शन | ७. शानाय । SCRECENCE
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy