SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ तत्त्वसार टीकायाम् |विंशति तमोऽधिकार ॥१४०॥ विष्णवादिकं विभिन्नत्वेन दृष्टारः सन्ति, परन्तु '-किन्तु, 'तत्त्वार्थतः'-परमार्थतः, वास्तवमितिभावः, 'एषः'-प्रसिद्धः, 'आत्मा एवार्थः'-जीव एव पदार्थः, 'नन्विति'-निश्चयेन, 'विष्णुमुख्यैः'-विष्णवादिशब्दैः, 'अभिवाच्यः'-अमिधेयोऽस्ति, तत्वार्थतो विष्णवादिशब्दा आत्मपदार्थस्यैव वाचकाः सन्तीतिभावः ॥ ४ ॥ मूलम् कथं हि वेवेष्टयथ विष्णुरात्मा, व्याप्तेरथ ब्रह्म तथैष आत्मा । शिवोऽपि चात्मा शिवहेतुतः स्या-च्छक्तिस्तथाऽऽत्मश्रितवीर्यमेतत् ॥५॥ टीका-प्रश्नोत्तरदानपूर्वकमुक्तविषयमेव विवृणोति कथमित्यादिना ' ही 'ति निश्चये, चरणपूर्ती वा, 'कथमिति 'भवत उक्तकथनं कथं सम्भवतीतिभावः, उत्तरमाह-वेवेष्टीत्यादिना 'आत्मा'-जीवः, 'वेवेष्टि'-व्याप्नोति, 'अश्व'शब्द इति शब्दार्थः स च हेतौ इति हेतोरितिभावः, 'सः'-विष्णुः, उच्यते, 'अथे 'ति अनन्तरे, 'तथे 'ति समुच्चये, 'एषः'-प्रसिद्धः, पूर्वोक्तो वा, 'आत्मा'-जीवः, 'व्याप्तेः'-व्याप्तिहेतोः, ब्रह्म उच्यते, 'च'-पुनः, 'अपि'-शब्दा समुच्चये, 'आत्मा'-जीवः, 'शिवहेतुतः '-कल्याणकारणभावात् , 'शिवः स्यात् '-शिवो भवति, शिव उच्यत इतिभावः, 'तथे 'ति समुच्चये, 'एतत् '-प्रसिद्धम् , 'आत्मश्रितवीर्य'-जीवस्थितपराक्रमः शक्तिरुच्यते, केवलज्ञानज्ञातलोकालोक १. केवलज्ञानशातलोकालोकस्वरूपो ज्ञानात्मना व्यापकत्वेन विष्णुः । परब्रह्मसञ्जनिजशुद्धात्मभावनात्मकत्वेन ब्रह्मा । शिवं निर्वाणं | प्राप्तं येनेति शिवः कर्ममुक्तः सिद्धत्वावस्थामधिश्रितः, यदुच्यते योगवासिष्ठादी जीवः शिवः शिवो जीवो, नान्तरं शिवजीवयोः । A कर्मबद्धो भवेज्जीवः, कर्ममुक्तः सदा शिवः।" इति यद्वा अत्रत्यभावापेक्षया शिवमस्यास्तीति शिवः शिवसत्तावान् इत्यर्थः ।। HU॥१४०॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy