SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ जैन तत्त्वसार टीकायाम् ॥ १०५ ॥ टीका - अस्योत्तरमाह - अहो इत्यादिना ' अहो ' इत्यामन्त्रणे, त्वया ' साधु वचः समीहितं ' - सुन्दरं वचनं कथितं, सुन्दरं वचो जल्पितमिति भावः, ' यत् ' - इदं, ' ते मनः ' -तव मानसं 'धर्मश्रुतौ ' - धर्मश्रवणे, 'अभूत्' - बभूव, धर्मश्रवणे समुद्यतं जातमित्यर्थः, ' तर्हि ' - तदा, ' एकाग्रचेतः ' - एकाग्रचित्तपूर्वकम्, क्रियाविशेषणमेतत्, 'मद्वचः शृणु' - मम कथनमाकर्णय, ' यथा '- येन प्रकारेण यद्धर्मश्रवणवशादित्यर्थः, 'सुधर्मे ' - श्रेष्ठधर्मे, तवाऽपि ' सुधीरस्तु ' - शोभना बुद्धिर्भवेत्, येन श्रेष्ठधर्मे वाऽपि मतिरुद्युक्ता जायेतेति भावः ॥ २॥ मूलम् - हिंसामृषादत्तंग्रहाङ्गनागमाः, परिग्रहश्चेति समे समन्ततः । विवर्जनीया यदिमान् विवर्ज्य, सिद्धोऽभवच्छ्री भगवान् प्रसिद्धः ॥ ३ ॥ टीका - साधनं दर्शयितुमाह - हिंसेत्यादि हिंसा ' - मनोवाक्कायेन प्राणिद्रोह:, ' मृषा '-असत्यम्, 'अदत्तग्रहः 'अदत्तपदार्थाऽऽदानम्, चौर्यमित्यर्थः, 'अङ्गनागमः' - स्त्रीसेवनम्, 'च' - पुनः, 'परिग्रहः ' - पदार्थेषु मूर्च्छा, 'इत्येते' 'समे’सर्वे, ‘समन्ततः ’- सर्वतः, सर्वप्रकारेणेत्यर्थः, 'विवर्जनीयाः ' - त्याज्याः, सन्तीति शेषः, ' यत् ' - यस्मात् कारणात्, 'इमान्’हिंसादीन्, ' विवर्ज्य ' - त्यक्त्वा, ' प्रसिद्ध : ' - प्रख्यातः, ' श्रीभगवान् ' - उत्तमैश्वर्यादियुक्तः, केवली, 'सिद्धोऽभवत् ' - सिद्धिं गतो जातः सिद्धिं प्राप्त इति भावः ॥ ३ ॥ १. आदान । षोडशोऽधिकारः ॥ १०५ ॥
SR No.600374
Book TitleJain Tattva Saragranth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani, Manvijay Gani
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1941
Total Pages328
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy