________________
लाचतुर्दशोऽ
तत्वसार
धिकार
.१९॥
'आगमः'-मन्त्राम्नायः, 'साधनम् '-सिद्धिविधिः, 'रसायनं'-धातुवर्द्धनादिविधिः, 'व्याकरणादिविद्याः-व्याकरणप्रभृतिका विद्याः, 'चरित्रं '-वृत्तम् , 'वृत्तिः'-वर्त्तनम् , 'परदेशवार्चा'-स्थितं वार्ताम् , 'एतान्'-सर्वान् , 'स्वादिंद्रियात्'स्वकीयेंद्रियद्वारा, 'नवेति-न जानाति, किन्तु 'च' 'शब्दश्वरणपूत्तौं, 'अन्यतः'-अपरद्वारा, परस्योपदेशत इतिभावो वेति॥२६॥ मूलम्-हेतोरतः सुष्टु विधाय चित्तं, विचारयेदं स्वविकल्पमुक्तः।।
ग्राह्यं यदेवास्ति नृणां निजैः वै-स्तदेव गृह्णन्ति हि तानि खानि ॥२७॥ टीका-अत्रैव पुष्टिमाह-हेतोरित्यादिना अतो हेतोः'-अस्मात् कारणात् , 'चित्तं'-मनः, 'सुष्टु विधाय'स्वस्थं कृत्वा, 'विकल्पमुक्तः'-स्वतर्करहितः सन् , त्वम् , 'इदम्'-वक्ष्यमाणम् , 'विचारय'-चिन्तय, यत् निजैः 'खैःइंद्रियः, 'नृणाम् '-मनुष्याणाम् , ' यत्'-वस्तु, 'एव' शब्दश्चरणपूत्तौं, 'ग्राह्यमस्ति'-आदेयमस्ति, “ही 'ति निश्चये, तानि 'खानि'-इंद्रियाणि, 'तदेव'-वस्तु, 'गृहन्ति'-आददते ॥२७॥ मूलम्-ज्ञानं परोक्षं हि यदिन्द्रियाणां, तज्ज्ञायते मक्षु परोपदेशात् ।।
शस्तं तथाऽशस्तमिदं समस्तं, विस्तारसंक्षेपत ईक्ष्यतेऽन्यतः ॥ २८॥ टीका-एतदेव स्पष्टयति-ज्ञानमित्यादिना 'ही'ति निश्चये, चरणपूतों वा, 'यत्'-ज्ञानम् , 'इन्द्रियाणाम्'-श्रोत्रादीनां, 'परोक्षम्'-अप्रत्यक्षमस्ति, 'तत् '-ज्ञानम् , 'परोपदेशात् '-अन्यस्योपदेशेन, 'मक्षु'-द्रुतं, 'ज्ञायते '-अवबुध्यते, फलितमाह-शस्तमित्यादिना 'शस्तं'-प्रशंसनीयं, यथार्थमिति यावत् , 'तथे 'ति समुच्चये, 'अशस्तम्'-अप्रशंसनी