SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२०७॥ सटिप्पवा ॥स्वोपक्ष वृधिः ॥ गाथा-५४ ॥२०७॥ शुभपरिणामहेतुर्जीवाबाधो जीवधातः स एव हिंसेति मतं तीर्थकरगणधराणाम् । यस्य तु जीवावाधस्य सोऽशुभपरिणामो, न| निमित्तं स जीवाबाधः, सन्नपि तस्य साधोन हिंसेति ॥ अमुमेवार्थ दृष्टान्तेन द्रढयन्नाह-"सद्दादओ रइफला, ण वीयमोहस्स भावसुद्धीओ। जह तह जीवाबाहो. ण सुद्धमणसो वि हिंसाए ॥१७६८॥" यथेह वीतरागद्वेषमोहस्य भगवत, इष्टाः शब्दरूपादयो, भावविशुद्धितो न कदाचिद्रतिफला रतिजनकाः सम्पद्यन्ते, यथा वेह शुद्धात्मनो रूपवत्यामपि मातरि न विषयाभिलाषः सञ्जायते, तथा शुद्धपरिणामस्य यत्नवतः साधोः सत्त्वोपघातोऽपि, न हिमायै सम्पद्यते, ततोऽशुभपरिणामजनकत्वे बाह्यं निमित्तमनैकान्तिकमेवेति ॥" यदि चाशक्यपरिहारविराधनाभोगः साधूनां सम्यक्त्वक्षतिकरः स्यात् तदौत्सर्गिकविहारादिक्रियापरित्याग एव खात् , तत्रापि योगजन्यविराधनानिश्चयाद्, न च प्रमाणान्तरेण निश्तेिऽपि स्वादर्शनमात्रेणानाभोगः शक्यो वक्तुमित्युक्तमेघ, न चेदेवं तदा निरन्तरजीवाकुलभूमि निर्णीयापि रात्रौ तत्रैव स्वैरंगमने जीवाप्रत्यक्षत्वेन तत्र तज्जीवविराधनाऽनाभोगजा बक्तन्या स्यात् । तथा च लोकशास्त्रविरोधः। किंचैवमब्रह्मसेवायामपि केवलिवचसा निश्चीयमानाया अपि त्रसविराधनाया अनाभोगपूर्वकत्वे साधोः प्रथममहाव्रतभङ्गो न स्थात् , स्याच प्रकृष्टावधिमतां प्रत्यक्षयोगजन्यघिराधनानामिति न किञ्चिदेतत् ॥ ५४॥ • एवं व्यवस्थिते सत्यत्र विश्रान्तस्य परस्याक्षेपं समाधत्तेनणु आभोगा इत्थं, विरयाणं हुज देसविरयत्तं ॥ णेबं, जं पडिपुन्ना, पडिवत्ती सुत्तआणा य ॥ ५५ ॥ • [नवाभोगादत्र विरतानां भवेद् देशविरतत्वम् । नैवं, यत्प्रतिपूर्णा प्रतिपत्तिः सूत्राज्ञा च ।। ५५ ॥ ] व्याख्या-नणुत्ति। नन्वत्र नद्युत्तारे जल जीवविराधनायामाभोगाद्विरतानां, सर्वसंयमवतां देशविरतत्वं भवेत् , निश्चि NEERIES
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy