SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्ती. भावद्वारे ॥२९४॥ इहोपशमकग्रहणेन मोहोपशमका उपशान्तमोहाच गृह्यन्ते, क्षपकोपादानेनापि क्षपकाः क्षीणमोहाच स्वीक्रियन्ते, उपलक्षणव्याख्यानात्, ततश्च सर्वस्तोका एव उपशमकाः, क्षपकास्त्वेतेभ्यः संख्येयगुणाः, एतेषां चोपशमकक्षपकाणामेतदल्पबहुत्वमुभयेषामप्युत्कृष्टपदसत्त्वे लभ्यमाने द्रष्टव्यम्, अन्यदा तूभयेऽप्यमी भवन्ति वा नवा, भवन्तोऽपि कदाचिदुपशमकाः स्तोकाः क्षपकास्तु बहवः, कदाचित्तु विपर्ययेणेति भजनैव द्रष्टव्या, क्षपकेभ्योऽपि जनाः - भवस्थकेवलिनः संख्येयगुणाः, एतेभ्योऽप्यप्रमत्तगुणस्थानवर्त्तिनो यतयः संख्येयगुणाः, तेभ्यस्त्वितरे- प्रमत्तयतयः संख्येयगुणाः, तेभ्योऽपि देशविरताः तिर्यक्ष्वपि भावादसंख्येयगुणाः, सास्वादनास्तु कदाचित् सर्वथैव न भवन्ति, यदा तु भवन्ति तदा जघन्यपदे एको वा द्वौ वा यावदुत्कृष्टतो गतिचतुष्टयसम्भवित्वादेशविरतेभ्योऽसंख्येयगुणा भवन्ति, मिश्राः सम्यग् मिध्यादृष्टयो यदा भवन्ति तदोत्कृष्टतः सास्वादनेभ्यः संख्यातगुणा भवन्ति, तेभ्यस्तु अविरतसम्यग्दृष्टयः सर्वदैवासंख्येयगुणाः प्राप्यन्ते, एतेभ्योऽप्यनन्तगुणाः सिद्धाः सिद्धेभ्योऽपि मिथ्यादृष्टयोऽनन्तगुणाः, सर्वनिगोदजीवानां मिथ्यादृष्टित्वादित्यादियुक्तिः सुगमैवेति गाथाद्वयार्थः ।। २७७ - २७८ ॥ साम्प्रतमेतेषामेव गुणस्थानजी - वसमासानां गतिचतुष्टये प्रत्येकमल्पबहुत्वमभिधित्सुर्नारकदेवगत्योरेकवक्तव्यत्वाद्युगपदेवाह सुरनरए सासाणा धोवा मीसा य संखगुणयारा । तत्तो अविरयसम्मा मिच्छा य भवे असंखगुणा ।। २७९ ॥ सुरेषु नारकेषु च प्रत्येकं सति सम्भवे उत्कृष्टपदवर्त्तिनोऽपि सास्वादनाः स्तोकाः, मिश्राः सम्याग्मिथ्यादृष्टय उत्कृष्टपदभाविनः, संख्येयेन राशिना सास्वादनराशेर्गुणकारो येषां ते संख्येयगुणकाराः, संख्येयगुणा इत्यर्थः, तेभ्यस्तु-मिश्रेभ्योऽविरतसम्यग्दृष्टयो गुणस्थाना नामल्प बहुत्वं ॥२९४॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy