________________
RCCC
जीवसमासे हैमीवृत्ती. भावद्वारे ॥२९॥
भवन्ति, तत्प्रस्तावादेतेऽपि पंचन्द्रिया एव लभ्यन्ते, असंख्येयगुणत्वाभिधानाच, अन्यथा पर्याप्पैकेन्द्रियादितिरश्चामनन्तत्वात्ति-| देवानामल्प रवीनां त्वसंख्येयत्वात्ताभ्यः सामान्यन पर्याप्ततिरश्चामनन्तगुणत्वमेव स्यादित्यलं विस्तरेण । पर्याप्तपंचेन्द्रियतिर्यग्भ्यस्तु सामान्ये- ला बहुत्वं नैकेन्द्रियादितियचोऽनन्तगुणा इति गाथार्थः ।। २७३ ॥ अथ देवगतौ स्वस्थानेऽल्पबहुत्वमाह___ थोवाणुत्तरवासी असंखगुणवड्डी जाव सोहम्मो । भवणेसु वंतरेसु य संखजगुणा य जोइसिया ॥२७४॥
शेषदेवापेक्षया स्तोका एवानुत्तरविमानवासिनो देवाः, तेभ्यो ग्रैवेयकवर्तिनोऽसंख्येयगुणाः, एतेभ्योऽप्यच्युतेऽसंख्येयगुणाः ततोऽप्यारणे इतोऽपि प्राणते अस्मादप्यानते कल्पेऽसंख्येयगुणा देवाः, एवं क्रमेण प्रतिकल्पमसंख्येयगुणा वृद्धिस्तावन्नेया यावदी| शानकल्पनिवासिदेवेभ्यः सौधर्मेऽसंख्येयगुणा देवा इति प्रस्तुतग्रन्थाभिप्रायः, स चासंगत इव लक्ष्यते, यतो महादण्डकेऽनुत्तर| विमानवासिभ्य आनतकल्पं यावत् संख्यातगुणैव वृद्धिरुक्ता, माहेंद्रदेवलोकेभ्योऽपि सनत्कुमारदेवाः संख्येयगुणाः, ईशानदेवेभ्योऽपि सौधर्मे देवाः संख्येयगुणाः प्रोक्ता इति, सौधर्मदेवेभ्यो भवनेषु ये भवनपतिलक्षणा देवाः प्रतिवसन्ति तेऽसंख्येयगुणाः, एवमेतेभ्यो व्यन्तरेष्वप्यसंख्येयगुणत्वं वाच्यं, व्यन्तरसुरेभ्यस्तु ज्योतिष्कदेवाः संख्येयगुणाः, महादण्डके तथैव पठितत्वादिति गाथार्थः | ॥ २७४ ॥ साम्प्रतं सामान्येनैकेन्द्रियत्वादिविशेषणविशिष्टानां जन्तूनामल्पबहुत्वमभिधित्सुराह
॥२९२॥ पंचिंदिया य थोवा विवज्जएण वियला विसेसहिया । तत्तो य अणंतगुणा अणिदिएगिदिया कमसो ॥ २७५ ॥
द्वीन्द्रियादिजीवापेक्षया स्तोकास्तावत् पंचेद्रियाः, तेभ्यस्तु विकला:-द्वित्रिचतुरिन्द्रयलक्षणा विकलेन्द्रिया(विपर्ययेण) विशेषाभ्य
RESTORANASASAAAAAA