SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्तौ . अंतरद्वारं ॥२८० ॥ परमाणू दव्वाणं दुपएसाईणमेव खंधाणं । समओ अनंतकालोत्ति अंतरं नत्थि सेसाणं ।। २६४ ॥ 4 परमाणू दव्वाणं ' ति एकैकविशकलितपुद्गलरूपाणां परमाणुद्रव्याणां जघन्यतः समय उत्कर्षतस्त्वसंख्येयः कालोऽन्तरमिति शेषः, इदमत्र हृदयम्-यदा एकाकी परमाणुः कश्चिदन्येन परमाणुद्व्यणुक त्र्यणुकादिना द्रव्येण सह समयमेकं संयुज्य पुनरप्येकाकिपरमाणुतां प्रतिपद्यते तदा परमाणोः पुनः परमाणुत्वभवने जघन्यतः समयोऽन्तरं भवति, यदा तु स एव परमाणुस्तेन परमाण्वादिनाऽन्यद्रव्येण सह संयुक्तोऽसंख्येयं कालं स्थित्वा पुनः परमाणुत्वमश्नुते तदोत्कृष्टतोऽसंख्येयः कालोऽन्तरं भवति, उक्तञ्च " परमाणुस्स णं भंते ! अंतरं कालओ केच्चिरं होइ ?, गोयमा ! जहण्णेणं एकं समयं उक्कोसेणं असंखेज्जं कालं " ति, 'दुपए साईणमेवे ' त्यादि द्वौ प्रदेशौ - परमाणुद्वयलक्षणौ यस्मिन्नसौ द्विप्रदेशः स्कन्धः स आदिर्येषां त्रिप्रदेशादीनां ते द्विप्रदे शादयस्तेषां द्विप्रदेशादीनां स्कन्धानां जघन्यतः समय उत्कृष्टतस्त्वनन्तः कालोऽन्तरं भवति, इदमुक्तं भवति-इह विवक्षितेन केनापि द्विप्रदेशादिस्कन्धेनैकेन खण्डशः स्फुटित्वा द्रव्यान्तरेण वा संयुज्य परित्यक्ते द्विप्रदेशादिभावे विश्रसापरिणामेन समयादूर्ध्वं पुनः प्राप्ते च तस्मिनेकस्य द्विप्रदेशादिस्कन्धस्य परित्यक्ततत्परिणामस्य पुनस्तदवाप्तौ जघन्यतः समयोऽन्तरे प्राप्यते, यदा तु स एव द्विप्रदेशादिस्कन्धः खण्डशो विभिद्य द्रव्यान्तरैः सह संयोगवियोगादिभावमनुभवमनन्तं कालं परिभ्रम्य पुनरपि तैरेव परमाणुभिस्तमेव विवक्षितभावमासादयति तदोत्कृष्टतोऽनन्तः कालोऽन्तरे सिद्धो भवति, अन्ये त्वध्याहारमकृत्वा परमाणुद्रव्याणामप्युत्कृष्टतोऽनन्तमेव कालमन्तरे व्याचक्षते तच्चायुक्तमेव परमाणोः पुनः परमाणुत्वभवने व्याख्याप्रज्ञप्त्यादिष्वागमे परमाण्वा दिषु विरह कालः ॥२८० ॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy