SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ पूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहलक्षणस्य जीवसमूहस्य स्वकीयस्वकीयपर्यायपरित्यागे पुनस्तत्पर्यायप्राप्तौ किंचि- गुणस्थानां जीवसमासे दूनं पुद्गलपरावर्तार्द्धमुत्कृष्टमन्तरं भवति, सम्यक्त्वानुगतग्रहणेन च सर्वेऽप्यमी अविरतादय उपशान्तमोहान्ता जीवाः संगृहीता कोपरमन्तरम् हैमीवृत्ती अंतरद्वारं भवन्ति, सम्यक्त्वमात्रस्य सर्वत्र भावादिति सम्यक्त्वानुगतोपादानं, एते चाविरतादयः सम्यक्त्वगुणादपि परिभ्रष्टा उत्कृष्टतः किंचिन्न्यूनं पुद्गलपरावर्तार्द्ध संसारसागरमवगाहन्ते, तदन्ते पुनरप्यवश्यं सम्यक्त्वादिगुणमवाप्य सिद्धयन्तीति, सम्यक्त्वपुंजस्य प्रायः ॥२७॥ सत्तायामवश्यं भावात् सास्वादनमिश्रा अपीह सम्यक्त्वानुगतत्वेन विवक्षिता द्रष्टव्याः, तेपि च तद्भावपरित्यागे उत्कृष्टतोऽपार्द्ध पुद्गलपरावर्त्त यावद्भवं परिभ्रमन्ति, तदन्ते च केचित् पुनरपि तद्भावं प्राप्य केचित्त्वप्राप्यैव विशुद्धां सम्यक्त्वादिगुणसामग्री लब्ध्वाऽवश्यं सिद्धयन्तीति, क्षपकक्षीणमोहसयोग्ययोगिकेवलिनां त्वन्तरचिन्ता नास्ति, तेषां प्रतिपातस्यैवाभावाद् , अतः सम्यक्वानुगतत्त्वे सत्यपि तेषां नेह ग्रहणम् ।। अथ कोऽयं पुद्गलपरावर्तो यदर्दू किंचिन्न्यूनमुत्कृष्टतः सास्वादनादयो भवं भ्राम्यन्तीति, उच्यते, यदा चतुर्दशरज्ज्वात्मकलोकवर्तिनः सर्वेऽपि पुद्गलाः संसारसागरे पर्यटता एकजीवेनानन्तेषु भवेष्वौदारिकवैक्रियतैजसकार्मणभाषानापानमनोलक्षणपदार्थसप्तकरूपतया पारणमय्य मुक्ता भवन्ति तदाऽसौ पुद्गलपरावर्त्तः परिभाष्यते, अन्ये त्वाचार्या द्रव्यक्षेत्रकालभावभेदाचतुर्दा पुनः प्रत्येकं बादरसूक्ष्मभेदतो द्विधा पुद्गलपरावर्त्त वर्णयन्ति, तत्र द्रव्यतो बादरः किल तदा भवति में यदा संसारे पर्यटन्नेको जीवः सर्वानपि सर्वलोकवर्तिनः पुद्गलान् सामान्येनौदारिकवैक्रियतैजसकामणशरीरचतुष्टयरूपतया परिण-10 मय्य मुंचति, यदा तु यथोक्तौदारिकादिशरीरचतुष्टयमध्ये प्रत्येकमेकैकशरीररूपतया सर्वानपि सर्वलोकपुद्गलान् परिणमय्य विस ॥२७॥ जति विवक्षितशरीराच्छेषशरीरादिरूपतया तु परिणमिता अपि न गण्यन्ते तदा द्रव्यत एव सूक्ष्मपुद्गलपरावर्तो भवति । क्षेत्र +91956
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy