SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्तौ क्षेत्रद्वारे %ARC5 ॥१९४॥ % किञ्चित् समानवक्तव्यत्वात्तिर्यमनुष्यगीतस्पर्शना युगपदेव पश्चाद्वक्ष्यत इति चेतसि निधाय देवगतिमाधिकृत्य तावदाह- मिथ्याहईसाणंता मिच्छा सासण नव मिस्स अविरया अट्ठ। अट्ठ सहस्सारातिय छलच्चुयाऽसंखभागुप्पिं ॥१९७॥ गादिदेवा नां स्पर्शना भवनपत्यादय ईशानान्ता देवा मिथ्यादृष्टयः सास्वादनाच नव रज्जूः स्पृशन्ति, तथाहि-भवनपतिव्यन्तरा ज्योतिष्कास्तावत् पूर्वोक्तकारणादधस्तृतीयनरकपृथ्वीं यावद्गच्छन्तो रज्जुद्वयं स्पृशन्ति, उपरि चेषत्प्रारभारादिपृथिवीकायिकेषूत्पद्यमानाः सप्त रज्जूः ४. स्पृशन्तीति सर्वा अपि नव, सौधर्मेशानदेवा अपि मिथ्यादृष्टिसास्वादनाः तृतीयपृथिवीं यावत् गच्छन्तः सार्धं रज्जुत्रयं । स्पृशान्त, उपरि चेषत्प्रारभारादिपृथ्वीकायिकेषु उत्पद्यमानाः सार्ध पंचरज्जुकं स्पृशन्तीति सर्वा अपि नव रज्जव इति, 'मिस्स अविरया अदुत्ति । एत एव भवनपत्यादय ईशानान्ता देवाः सम्यग्मिथ्यादृष्टयोऽविरताश्चाष्ट रज्जूः स्पृशन्ति, इयं चाष्टरज्जुस्पर्शनाऽमीषामधस्तात् तृतीयनरकपृथ्वी यावद्गच्छतामुपरि च पूर्वसांगतिकदेवनाच्युतदेवलोकं यावन्नीयमानानां भावनीया, तृतीयपृथिव्यच्युतदेवलोकयोरन्तरऽष्टरज्जुसद्भावादिति, ' अट्ठ सहस्सारतिय 'त्ति सामान्येन मिथ्यादृष्टयादिस्वरूपाः सनत्कुमारादिसहस्रारान्तिका अपि देवा अष्ट रज्जूः स्पृशन्ति, इयमप्यष्टरज्जुस्पर्शना एतेषामधस्तात् तृतीयपृथ्वीं यावद्गच्छतामुपरि चाच्युतदेवलोके पूर्वसाङ्गतिकदेवेन नीयमानानां तथैव परिभावनीया, अत्राह-ननु 'अट्ठ य पाणयअंतिय' ति कस्मात्रोक्तं ?, प्राणतान्तानामपि देवानामनया युक्त्याऽष्टरज्जुस्पर्शनासम्भवादिति, सत्यम् , किन्त्वेवं मन्यते अल्पमोहत्वादानतादयो देवा नरकेषु वेदनोदीरणादिनीमत्तं न गच्छन्त्येव, पूर्वसाङ्गतिकदेवेनापि च नीय-18 ॥१९४॥ CE%ERS
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy