SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ जीवसमासे हैमीवृत्ती. भवनधर्मा सोधमेमान ॥१५४॥ प्रथमवर्गमूलं द्वितीयवर्गमूलस्वरूपेण समनन्तर्वर्गमूलेन गुणितं रत्नप्रभानारकाणां श्रेणिविस्तरात्मिका सचिर्भवति, इदमपि. द्वितीय|वर्गमूलं तृतीयवर्गमूलात्मकेन समनन्तरवर्गमूलेन गुणितं सौधर्मदेवानां श्रेणिविस्तरलक्षणा सूचिर्भवति, इदमुक्तं भवति प्रतरस्यांगुल- प्रमाणं यत् क्षेत्रं तत् सद्भावतस्तावदसंख्याताः श्रेणयो भवन्ति, याश्च विनेयजनस्य सुखावगमार्थ षट्पश्चाशदधिकशतद्वयप्रमाणाः परिकल्प्यन्ते, अस्य च राशेः प्रथम द्वितीय तृतीयं च वर्गमूलं गृह्यते, एतान्यपि च प्रत्येकमसंख्येयश्रेण्यात्मकान्येव, तथापि पूर्वोक्तहेतोरेव प्रथमे वर्गमूले षोडश श्रेणयो द्वितीय चतस्रः तृतीये तु द्वे परिकल्प्यन्ते, एवं च सति सद्भावतोऽसंख्येयश्रेण्यात्मक कल्पनया तु षट्पञ्चाशदधिकश्रोणशतद्वयात्मकमंगुलप्रमाणं प्रतरक्षेत्रं सद्भावतोऽसंख्येयश्रेण्यात्मकेन कल्पनया तु षोडशश्रेणिस्वरूपेण प्रथमवर्गमूललक्षणेन समनन्तरवर्गमूलेन गुणितं सद्भावतोऽसंख्येयश्रेणिविस्तरात्मिका कल्पनया तु पणवत्यधिकश्रोणिसहस्रचतुष्टयविस्तारस्वरूपा भवनपतीनां विष्कम्भसूचिर्भवति, अङ्कतोऽपि दर्श्यते यथा ४०९६, एतावतीषु प्रतरश्रेणिषु यावन्द आकाशप्रदेशास्तावन्तो भवनपतयो भवन्तीति भावार्थः, एवमुत्तरत्रापि भावार्थो वाच्य इति, यत्त प्रथमं वर्गमूलं तद् द्वितीयवर्ग-1 मूललक्षणेन. समनन्तरवर्गमूलेन गुणितं रत्नप्रभानारकाणां विष्कम्भसीचर्भवति, इयमपि सद्भावतोऽसंख्येयश्रेण्याल्मिका कल्पनया तु चतुःषष्टिश्रेण्यात्मिका भवति ६४, यत् पुनर्द्वितीयवर्गमूलं तत्तृतीयवर्गमूललक्षणेन समनन्तरवर्गमूलेन गुणितं सौधर्मदेवानां विष्कम्भ| सूचिर्भवति, इयमपि सद्भावतोऽसंख्येयथेण्यात्मिका कल्पनया त्वष्टश्रेण्यात्मिका सिद्धा भवतीत्येष तावत् प्रस्तुतग्रन्थगाथाभियायः । अयं च प्रज्ञापनामहादण्डकानुयोगद्वारादिभिः सह विसंवदति, तथाहि-प्रज्ञापनामहादण्डके भवनपतिभ्यो रत्नप्रभानारका |असंख्यातगुणाः पठिताः, प्रस्तुतग्रन्थगाथायां तु रत्नप्रभाविष्कम्भसूचेः सकाशाद्भवनपीतसूचरंसस्यातगुणेन बृहत्त्वाभि ॥१५४॥
SR No.600370
Book TitleJiv Samas Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherAgmoday Samiti
Publication Year1927
Total Pages308
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy