SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ श्री मोध-त्यु નિર્યુક્તિ ભાગ-૨ ॥ ८४०॥ रत्तो वा दुट्टो वा मूढो वा जं पउंजइ पओगं । हिंसावि तत्थ जायइ तम्हा सो हिंसओ होइ ॥७५९॥ न य हिंसामित्तेणं सावज्जेणावि हिंसओ होइ । - सुद्धस्स उ संपत्ती अफला भणिया जिणवरेहिं ॥७६०॥ यश्च जीवप्रयोगं मनोवाक्कायकर्मभिहिँसार्थं युनक्ति-प्रयुक्ते यश्चान्यभावेन, एतदुक्तं भवति-लक्ष्यवेधनार्थं काण्डं क्षिप्तं यावताऽन्यस्य मृगादेर्लग्नं, ततश्चान्यभावेन यः प्रयोगं प्रयुक्ते तस्यानन्तरोक्तेन पुरुषविशेषेण सह महान् विशेषः। तथा 'अमनस्कश्च' मनोरहितः-संमूर्च्छज इत्यर्थः, स च यं प्रयोगं-कायादिकं प्रयुक्ते, अत्र विशेषो महानुक्तः, एतदुक्तं भ भवति-यो जीवो मनोवाक्कायैहिँसार्थं प्रयोगं प्रयुक्ते तस्य महान् कर्मबन्धो भवति, यश्चान्यभावेन प्रयुक्ते तस्याल्पतरः कर्मबन्धः यश्चामनस्कः प्रयोगं प्रयुक्ते तस्याल्पतमः कर्मबन्धः, ततश्चात्र विशेषो महान् दृष्ट इति । एतदेव व्याख्यानयन्नाह-हिंसार्थं प्रयोगं प्रयुञ्जतः सुमहान् दोषो भवति, इतरश्च योऽन्यभावेन प्रयुक्ते, तस्य मन्दतरो दोषो भवत्यल्पतर इत्यर्थः, तथा 'अमनस्कश्च' संमूर्च्छनजः प्रयोगं प्रयुञ्जन् अल्पतमदोषो भवति । अतो 'योगनिमित्तं' योगकारणिकः कर्मबन्धो विज्ञेय इति । किञ्च-'रक्तः' आहाराद्यर्थं सिंहादिः, 'द्विष्टः' सर्पादिः, 'मूढः' वैदिकादिः, स वी
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy