________________
श्रीमोध
अकरंडगम्मि भाणे हत्थो उटुं जहा न घट्टेइ । નિર્યુક્તિ
एयं जहन्नयमुहं वत्थु पप्पा विसालं तु ॥६९२॥ ભાગ-૨)
पात्रकस्य लक्षणं 'ज्ञात्वा विज्ञाय अपलक्षणं च बुद्ध्वा 'भूयः' पुनर्लक्षणोपेतं ग्राह्यं, यतो लक्षणोपेतस्यामी
गुणाः, अपलक्षणस्य चैते दोषाः-वक्ष्यमाणा भवन्ति तस्माल्लक्षणोपेतमेव ग्राह्यं नालक्षणोपेतं । तच्चेदम् - 'वृत्तं' वर्तुलं ॥ ११८॥ मा
तत्र वृत्तमपि कदाचित्समचतुरस्त्रं न भवत्यत आह - समचतुरस्त्रं सर्वतस्तथा स्थिरं च यद्भवति-सुप्रतिष्ठानं तद्गृह्यते नान्यत्, तथा स्थावरं च यद्भवति न परकीयोपस्करवद् याचितं कतिपयदिनस्थायि, तथा 'वयं' स्निग्धवर्णोपेतं यद्भवति | तद् ग्राह्यं, नेतरत् । उक्तं लक्षणोपेतम्,
इदानीमपलक्षणोपेतमुच्यते-'हुण्डं' क्वचिनिम्नं क्वचिदुन्नतं यत्तदधारणीयं, 'वायाइद्धं 'ति अकालेनैव शुष्कं सङ्कचितं वलीभृतं तदधारणीयं, तथा 'भिन्नं' राजियुक्तं सछिद्रं वा, एतानि न धार्यन्ते-परित्यज्यन्त इत्यर्थः । इदानीं । लक्षणयुक्तस्य फलदर्शनायाह - संस्थिते पात्रके-वृत्तचतुरस्त्रे ध्रियमाणे लाभो भवति, प्रतिष्ठा गच्छे भवति सुप्रतिष्ठितेस्थिरे पात्रके, 'निर्वणे' नखक्षतादिरहिते कीर्तिरारोग्यं च भवति, वर्णाढ्ये ज्ञानसंपद्भवति । इदानीमपलक्षणयुक्तफलं प्रदर्शयन्नाह -'हुण्डे' निम्नोन्नते चारित्रस्य भेदो भवति विनाश इत्यर्थः, 'शबले' चित्तले 'चित्तविभ्रमः' चित्तविलुप्तिर्भवति, 'दुप्पए' अधोभागाप्रतिष्ठिते-प्रतिष्ठानरहिते, तथा 'कीलसंस्थाने' कीलवदीर्घमुच्चं गतं तस्मिंश्च
Enfor
॥
६
॥