________________
मो
श्री जोध- त्थु
નિર્યુક્તિ
भाग-२
॥ ६४९८ ॥
म
ण
म
ग
रस
वृत्ति : इदानीं उव्वरिएत्ति द्वारं भण्यते, अथवा स्वयमेव भाष्यकारः संबन्धं प्रतिपादयन्नाहओ.नि.भा. : भत्तट्ठि उव्वरिअं अहव अभत्तट्ठियाण जं सेसं ।
संबंधेणाणेण उ परिठावणिआ मुणेयव्वा ॥ ३०४॥
भक्तार्थिकानां च भुक्तानामुद्वरितं यद् अथवा अभक्तार्थिकानां पारिष्ठापनिकाभोक्तृणां यदुद्वरितं - यच्छेषं तत्परिष्ठापनीयमिति कृत्वा अनेन संबन्धेन पारिष्ठापनिका विज्ञेया भवतीत्यर्थः ।
ओ.नि. : सा पुण जायमजाया जाया मूलोत्तरेहि उ असुद्धा ।
लोभातिरेगगहिया अभिओगकया विसकया वा ॥ ५९६ ॥
सा पुनः पारिष्ठापनिका जाता अजाता च भवति, तत्र जाता ग्रहणकाल एव प्राणातिपातादिदोषेण युक्ता अथवा आधाकर्मादिदोषेण 'जाता' उत्पन्ना, अजाता पुनः- आधाकर्मादिदोषेण न दूषिता या साऽजातेत्युच्यते, तत्र जातास्वरूपप्रतिपादनायाह- मूलगुणैः- प्राणातिपातादिभिरशुद्धा, तथा उत्तरगुणैश्चाधाकर्मादिभिरशुद्धा, तथा लोभातिरेकेण - लोभाभिप्रायेण साधुना गृहीता साऽप्यशुद्धा लोभदोषदूषिता सती जातेत्युच्यते, तथा अभियोगकृता, अभियोगो द्विविध:-वशीकरणचूर्णो मन्त्रश्च तत्र सा भिक्षा कदाचित्संयोजिता भवति मन्त्राभिमन्त्रिता वा साऽप्यशुद्धा,
स्थ
णं
स
म
ण
भ
स्म
म
स्प
॥ ६४८ ॥