________________
ण
श्री खोध- त्थु
નિર્યુક્તિ
णं
भाग-२
स ॥ ६४३ ॥ म
मां उच्चियोच्चित्य विष्टादेर्मध्याद्वल्लादि भक्षयति एवमसावपि, अथवा विकिरति काकवदेव सर्वं, तथा काकवदेव कवलं प्रक्षिप्य मुखे दिशो विप्रेक्षते, तथा श्रृंगाल इवान्यस्मिनन्यस्मिन् प्रदेशे भक्षयति । सुरभि यद् 'दोच्चंगं' तीमनं ओदनादिना सह यन्मिश्रीभूतं तत्र द्रवं प्रक्षिप्य यो निर्यासः संजातस्तत्पिबनं यत्तद्रवितरसमुच्यते । तथाऽधस्तादुपरि च यद् 'आमठ्ठे' विपर्यासीकृतं भुङ्क्ते तदेतत्परामट्टं, अयमेष भोजने विधिः । कः पुनर्ग्रहणभोजनयोर्विधि: ? इत्यत आहयथैव गृहीतं - गृहस्थेन दत्तं सत्तत्तथैवानीतं यदयं ग्रहणविधिः, भोजने पुनरयं विधिः- यदुतोत्कृष्टद्रव्यमन्यदनुत्कृष्टद्रव्यं च पण समीकृतरसं भुञ्जीतेत्ययं प्रथमो भङ्गकः शुद्ध इति । तृतीयेऽपि भङ्गकेऽविधिना असमाचार्या गृहीतं विधिना भुक्तंसमीकृतरसं सद् भुक्तं तच्च गुरुणाऽनुज्ञातं, शेषौ तु द्वौ भङ्गकौ नानुज्ञातौ, “यस्तु विधिगृहीतमविधिभुक्तं भ काकश्रृगालादिरूपं भक्तं ददाति योऽपि गृह्णाति तयोर्द्वयोरपि 'निज्जुहणा' निर्द्धारणं क्रियते, तथाऽविधिगृहीत मविधिभुक्तं च यो ददाति गृह्णाति वा तयोर्द्वयोरपि निर्द्धारणं क्रियत इति । अथवा एतद्दोषाकरणतया अनासेवनया उपस्थितं दातारं ग्रहीतारं च ज्ञात्वा संगोपायनं क्रियते, कल्याणकं च गुरवो ददति, तच्च ददति 'घट्टयित्वा' तिरस्कृत्य, यदुत त्वया पुनरेवं न कर्त्तव्यं, स चैवं गुरुः किंनिमित्तं करोतीत्यत आह- 'पसंगविणिवारणद्वाए' प्रसङ्गस्य-पुनरासेवनस्य विनिवारणार्थमेवं करोतीति ।
ચન્દ્ર. : પ્રશ્ન ઃ એક ઉપવાસવાળા વગેરેને કેવા પ્રકારનું પારિષ્ઠાપનિકા કલ્પે ?
स
म
ण
॥ ६४३ ॥