________________
श्रीमोधનિર્યુક્તિ ભાગ-૨
॥ २१॥ मा
यत्र पुनर्भुञ्जतां पतद्ग्रहको भवेत् 'कडो 'त्ति निष्ठितभक्तो जातः साधुपर्यन्तमप्राप्त एव, तत्र किं कर्त्तव्यमित्यत आह-'तत्र' तस्मिन्निष्ठितभक्ते पतद्ग्रहकेऽन्यद्भक्तं प्रक्षिप्यते, ततश्च यस्मिन् साधौ स निष्ठितः पतद्ग्रहस्तस्मादारभ्य तेनैव क्रमेण पुनर्धाम्यते, मात्रके वा यद्वालादीनां प्रायोग्यं गृहीतमासीत्, तदिदानीमुद्वरितं तदसंसृष्टं सत् पतद्ग्रहे प्रक्षिप्य पतद्ग्रहो यस्मिन् साधौ निष्ठितस्तस्मादारभ्य पुनभ्रंमतीति । यत्पुनर्गरोः शेषं भुञ्जतो जातं तत्संसष्टमपि प्रक्षिप्यते मण्डलीपतद्ग्रहके, बालादीनां वा दीयते तदाचार्योदरितं, यत्पुनराचार्यव्यतिरिक्तानामुदरितम् - अधिकं जातं तन्न प्रक्षिप्यते मण्डलीपतद्ग्रहके संसृष्टं सत् । किञ्च, 'सुक्कत्ति एकः शुष्केण भक्तेन पतद्ग्रहः, अपर: ‘उल्लत्ति आर्द्रण भक्तेन पतद्ग्रहः, एवं विज्ञाय ततः प्रक्षिपेट्वं 'सुक्के 'त्ति शुष्कभक्तपतद्ग्रहे, येन तोयप्रक्षेपेण संजातबन्धं तद्भक्तं सुखेनैव कवलैगुह्यते, अथ बहुलाभः संजातः-प्रचुरं लब्धं गुडादि ततोऽसंसृष्टमेव ध्रियते, किमर्थम् ?, अभक्तार्थिकानामर्थे, येन मनोज्ञं भवेत् ।
ચન્દ્ર, : પ્રશ્ન : આ પ્રમાણે તેઓ વાપરતા હોય અને ફરતું પાત્ર અડધે રસ્તે જ ખાલી થાય તો પછી શું વિધિ ? (પીરસનારો પાત્ર લઈને પીરસતો હોય અને એમાં ૫૦માંથી ૧૫, ૨૦, ૨૫ સાધુને પીરસાયું અને પાત્ર ખાલી થયું, તો પછી हा वे शुं विष ?)
- ઉત્તર : ઓઘનિર્યુક્તિ-૫૭૫ થી ૭૭: ટીકાર્થ : જો વળી સાધુઓ વાપરતા હોય અને અધવચ્ચે એ પાત્રનું બધું ભોજન