________________
श्री मोध- त्यु
वृत्ति : अधुना प्रदानोत्तरकालं यत्तेषां संजातं तदुच्यतेનિર્યુક્તિ
ओ.नि.भा. : चिंता लोहागरिए पडिसेहं सो उ कुणइ लोहस्स । ॥७७॥
वयराईहि अ गहणं करिति लोहस्स तिन्नियरे ॥९॥ लोहाकरोऽस्यास्तीति लोहाकरिकस्तस्मिन् लोहाकरिके चिन्ता भवति, राज्ञा परिभूतोऽहं येन ममाप्रधान आकरो म दत्तः, एवं चिन्तायां सत्यां सुबुद्ध्यभिधानेन मन्त्रिणाऽभिहितः-देव ! मा चिन्तां कुरु, भवदीय एव प्रधान आकरो न
शेषा आकरा इति, कुत एतदवसीयते ?, यदि भवत्संबन्धी लोहाकरो न भवति तदानीं शेषाकराऽप्रवृत्तिः भ लोहोपकरणाभावात्, ततोऽनिर्वाहं भवान् कारयतु कतिचिद्दिनानि यावदुपक्षयं प्रतिपद्यते तेषूपकरणजातं, ततः भ
सुमहाधमपि ते लोहं ग्रहीष्यन्तीत्यत आह-'पडिसेहं' इत्यादि, प्रतिषेधो-वारणा तं प्रतिषेधं करोत्यसौ । लोहं प्रतीतमेव तस्य लोहस्य, तुशब्दो विशेषणे, न केवलमनिर्वाहं करोत्यपूर्वोत्पादनिरोधं च, ततश्चैवं कृते शेषाकरेषूपस्कराः क्षयं प्रतिपन्नाः, ततस्ते वज्रादिभिर्ग्रहणं कुर्वन्ति, कस्य ? इत्यत आह लोहस्य, के कुर्वन्ति ? इतरे= वजाकरिकादयः । चशब्दान्न केवलं वज्रादिभिर्हस्त्यादिभिश्च । अत्र कथानकं स्पष्टत्वान्न लिखितम्, अयं दृष्टान्तः, साम्प्रतं दार्टान्तिकयोजना क्रियते-यथाऽसौ लोहाकर आधारभूतः शेषाकराणां, तत्प्रवृत्तौ शेषाणामपि प्रवृत्तेः, एवमत्रापि चरणकरणानुयोगे सति
(AI.-८
:
कि
॥
७
॥