________________
PF
नि.-८८
श्रीमोध-स्थ ओ.नि. : घट्ठाइतलिअदंडग पाउय संलग्गिरी अणुवओगो । નિર્યુક્તિ
दिसिपवणगामसूरिअ वितहं उच्छोलणा दव्वे ॥१९॥ ॥४४७॥
'घट्टादि'त्ति घृष्टा जङ्घासु दत्तफेनका, आदिशब्दात्तु मट्ठा तुप्पोट्ठादयो गृह्यन्ते 'तलिग'त्ति सोपानत्का:उपानद्रूढपादाः । 'दंडग'त्ति वेत्रलतादण्डकैर्गृहीतैः 'पाउय'मिति प्रावृत्तं यथा संयत्यः प्रावृण्वन्ति कल्पं तथा तैः प्रावृतं । 'संलग्गिरित्ति परस्परं हस्तावलगिकया व्रजन्ति, अथवा 'संलग्गिरित्ति युगलिता व्रजन्ति, 'अणुवओगो'त्ति अनुपयुक्ता स व्रजन्ति, ईर्यायामनुपयुक्ताः । एवं बहिर्भुवं गच्छन्तः प्रत्युपेक्षिताः इदानी सज्ञाभूमि प्राप्तान् तान् संयतान् प्रत्युपेक्षते
'दिसि 'त्ति आगमोक्तदिग्विपर्यासेनोपविशन्ति । 'पवण'त्ति पवनस्य प्रतिकूलमुपवेष्टव्यं ते तु आनुकूल्येन - | पवनस्योपविशन्ति । 'गाम'त्ति ग्रामस्याभिमुखेनोपवेष्टव्यं, ते तु पृष्ठं दत्त्वोपविशन्ति । 'सूरिय '
त्तिम सूर्यस्याभिमुखेनोपवेष्टव्यं, ते तु पृष्ठं दत्त्वोपविशन्ति । एवमुक्तेन प्रकारेण वितथं कुर्वन्ति । 'उच्छोलण'त्ति पुरीषमुत्सृज्य । प्रभूतेन पयसा क्षालनं कुर्वन्ति । 'दव्वे 'त्ति द्वारपरामर्शः । इयं तावद्वाह्या द्रव्यतः प्रत्युपेक्षणा । आह-अनन्तरगाथायां अभ्यन्तरायाः प्रत्युपेक्षणायाः प्रथममुपन्यासः कृतः, ततस्तामेव व्याख्यातुं युक्तं न तु बाह्यामिति, उच्यते, प्रथम तावद्वायैव प्रत्युपेक्षणा भवति पश्चादा(द)भ्यन्तरा, अतो बावि व्याख्यायते-आह-किमितीत्थमेव नोपन्यासः कृतः?, हा
वा॥४४७॥ उच्यते, अभ्यन्तरप्रत्युपेक्षणायाः प्राधान्यख्यापनार्थमादावुपन्यासः कृतः । एवं तावद्वाह्या प्रत्युपेक्षणा द्रव्यतोऽभिहिता,
HF to