________________
श्री मोध-स्थ નિર્યુક્તિ
॥ १५॥
मा.-31
આમ આ દેવતાના કથન પ્રમાણે તે વખતે સાધુઓએ એકાકી થવું પડે. દેવતાદ્વાર પૂર્ણ થયું. वृत्ति : अथाचार्यद्वारम् - ओ.नि.भा. : चरिमाए संदिट्टो उग्गाहेऊण मत्तए गंठिं ।
इहरा कयउस्सग्गो परिच्छ आमंतए सगणं ॥३१॥ चरिमा-चतुर्थपौरुषी तस्यां 'संदिष्टः' उक्तः यदुत-त्वायऽमुकत्र गन्तव्यं, स चाभिग्रहिकः साधुः, ततश्चासावेवमाचार्येणोक्तः किं करोति ?-सकलमुपकरणं पात्रकपटलादि वोद्ग्राहयति, मात्रकं च तेन गच्छता ग्राह्यं, अतस्तस्मिन् ग्रन्थि ददाति, मा भूद् भूयः प्रत्युपेक्षणीयं स्यात्, एवमसावाभिग्रहिकः संयन्त्र्य तिष्ठतीति । 'इहर'त्ति आभिग्राहिकाभावे विकालेवेलायां वा गमनप्रयोजनमापतितं ततः ‘कृतोत्सर्गः' कृतावश्यकः किं करोतीत्याहपरीक्षार्थमिति-पश्यामः कोऽत्र मद्वचनानन्तरं प्रवर्त्तते को वा न प्रवर्त्तते इति स्वगणमामन्त्रयते । "ते च प्रतिक्रमणानन्तरं तत्रैवान्तर्मुहर्तमानं कालमासते, कदाचिदाचार्याः खल्वपूर्वां सामाचारी प्ररूपयेयः, अपूर्वं वार्थपदं, तत्रस्थाश्च तानामन्त्रयतेऽसौ-भो भिक्षवः ! अमुकं मे गमनकार्यमुपस्थितं
॥१५॥