SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ साहिति गोम्मियाणं, धणधनगवेलए य साहिति तकराणं, गामागरनगरपट्टणे य साहितिचारियाणं, पारघाइयपंथघातियाओ साहति य गंठिभेयाणं, कयं च चोरिय नगरगोत्तियाणं लंछण-निल्लंछण-धमण-दुहण-पोसणवणण-दवण-वाहणादियाई साहिति बहूणि गोमियाणं धातुमणिसिलप्पवालरयणागरे य साहिति आगरीणं परभृतः, हंसा:-श्वेतपक्षाः तेषां यानि कुलानि वृन्दानि सारसांस्तान साधयन्ति पक्षिपोषकाणां पअराजीविकानां । वधस्तादनं बन्धनं-संयमनं कशादिभिः यातनां कदर्थनां तव साधयन्ति कुर्वन्ति गुल्मिकानां-गुप्तिपालानां । धनं चतुःप्रकारं हिरण्यादिवा, धान्यं चतुर्विशतिप्रकारं अशनादि वा, गावो:-बलीवर्दसुरभयः, एलकाः उरभ्रास्तान् साधयन्ति तस्कराणां चौराणां । ग्रामवृत्त्या वृत्तं लघुपुरं, नगरं-करवर्जितं पत्तनादीनि-जल-स्थलभेदात् द्विविधं पत्तनं भव्यवस्तूत्पत्तिस्तान् साधयन्ति चारिकाणां-दूतादिपुरुषाणां । तथा पारे-पर्यन्ते मार्गस्य घातिकाः पथि मार्गस्य मार्गे वा घातिकाः गन्तृणां हननं अर्द्धपथघातिकाः साधयन्ति, ग्रन्थिभेदकानां वा तत्कर्तृणां वा पैश्यतोहराणां चौरिकां नगरगुप्तिकानां तान् साधयन्तीति योगः। लाञ्छनं, अङ्कनं डम्भनादीनां, निर्लाञ्छनं कर्णविकतनादि, धमणं ति ध्मानं महिष्यादीनां वायुपूरणं, दोहनं दुग्धादीनां, पोषणं यवसादिदानेन पुष्टिकरणं, वञ्चनं अन्यमातरि योजनं, दुमणं दुवनमुपतापन, वाहनं-शकटाद्याकर्षणं इत्यादिकानि साधयन्ति बहूनि गोमतां। धातुः-गैरिकादि, धातवो-लोहादयः, मणय:-चन्द्रकान्ताद्याः, शिला-प्रस्तरमयी अथवा मणशिला धातुविशेषः, प्रवालं-विमं रत्नानि-कर्केतनादीनि तेषां आकराः खानयस्तान् साधयन्ति आकरिणां-आकरवतां । १ बंदिवान रक्षक इति भाषा २ वाटपाडा इति भाषा ३ फांसीया इति भाषा
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy