SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ग्गस्स फलिहभूओ चरिमं अहम्मदारं (सू० १७) तस्स य नामाणि इमाणि गोण्णाणि होति तीसं, तंजहा-परिग्गहो १ संचयो २ चयो ३ उवचओ ४ नि[दाणं ५ संभारो ६ संकरो ७ आयरो ८ पिंडो ९ दव्वसारो १० तहा महिच्छा ११ पडिबधो १२ लोहप्पा १३/८ महिड्डि १४ उवकरणं १५ संरक्खणा य १६ भारो १७ संपायउप्पायको १८ कलिकरंडो १९ पवित्थरो २० अणयस्य स तथा, नरपतिश्चक्रवादिस्तैः संपूजितस्तदभिलाषपूर्णताहेतुत्वात् , बहुजनस्य हृदये दयित इव वल्लभः रागिणां हृदयंगमत्वात, अस्य प्रत्यक्षस्य मोक्षवरस्य मुक्तिरेव निर्लोभ उपायो मोक्षवरमुक्ति मार्गस्तस्य परिषभूतः-अगलोपमो विघात इति, चरिम-प्रान्तं अधर्मद्वार, अनेन यादृश इति द्वारं उक्तं, अथ यनाम इति द्वारं उच्यते___तस्य परिग्रहधर्मद्वारस्य नामानि गुणनिष्पन्नानि तद्गुणयुक्तानि भवन्ति त्रिंशत्सङ्ख्याकानि तद्यथा-तद्दशयति-परिगृह्यत इति परिग्रहः-शरीरोपध्यादि अथवा परिग्रहणं मृत्वेिन स्वीकारः परिग्रहः १ संचीयते चयनं सर्वादनबुद्धिः संचयः २ एवं चयो वर्त्तमानिकाकालाऽपेक्षया ३ उपचयः पौनःपुन्येन आगामिकालापेक्षया ४ नितरां चेतसि बुद्ध्या धीयते इति निधानं निदानं वा | सर्वदोषाणामिति ५ संभ्रियते-धार्यते अज्ञानरक्षणादि उपायान् इति संभारः ६ संकरणं-संपिंडनं एकीकरणं संकरः ७ आदरः तदुपा यप्रवचनत्वात् आ संताप-कोपयोरितिवचनात् दरो भयं ८ । पिंडं-एकत्रीकरणं ९ द्रव्य एव सारं यत्र तद्र्व्यसारः १० तथा महेच्छा है अपरिमितवाञ्छा ११ प्रतिबन्धः अभिष्वङ्गः प्रसङ्ग इत्यर्थः १२ लोभात्मा लोभखभावः १३ महती इच्छा महर्द्धिका अथवा महर्दिका महती अबिर्याचा महर्दिका १४ उपकरणं उपधिः १५ संरक्षणा अभिष्वङ्गवशात् शरीरादिरक्षणं १६ भारो-गुरुताकारणं १७ संपातानां
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy