SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ संसारकतारं अणुपरियति जीवा मोहवसं निविट्ठा। - एसो सो अवंभस्स फलविवागो इहलोइओ परलोइओ य अप्पसुहो वहुदुक्खो महन्भओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं न मुञ्चति, न य अवेदइत्ता अस्थि हु मोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेज्जो कहेसी य अबंभस्ल फलविवागो एयं तं अयंभंपि चउत्थं सदेवमणुयासुरस्स लोगस्स पत्थणिज्ज एवं चिरपरिचियमणुगयं दुरंतं चउत्थं अधम्मदारं समत्तंति बेभि ४॥ (सू०१६) सागरोपमाणि बहूनि यावत् अनादिकं अप्राप्तमूलं अनवदनं अनन्तं दीर्घाध्वानं-दीर्घमार्ग चातुर्गतिकसंसारकान्तारं अनुपरिवर्तते परिभ्रमन्ते जीवाः, मोहवशेन संनिविष्टा अब्रह्मणि निष्ठा ये ते तथा, एषः प्रत्यक्षेणैव दृष्टो-ज्ञानचक्षुर्विवस्वता इति चतुर्थाश्रवत्वेन प्रसिद्धः, अब्रह्मणः फलविपाकः उदयप्राप्तरसपरिभोगफलः इह लौकिकः, पारलौकिकश्च, अल्पसुखः, बहुदुःखः, महद्भयः, बहुरजसापापेन संप्रगाढो व्याप्तः, दारुणो घोरफलत्वात् , कर्कशः-कठिनः, असातामयः, वर्षसहस्रैरपि न मुच्यते तद्विपाकात , अवेदयित्वा अक्षीणत्वात् न मोक्षः वेदयित्वा तद्विपाकं निर्जरयित्वैव मोक्षस्तत्कर्मणः सकाशादिति शेषः, एवममुना प्रकारेण उक्तवान् ज्ञातकुलनन्दनः, महात्मा, जिनो-वीतरागातु-पुनः वीरवरनामधेयो महावीरः कथितवात् , अब्रह्मणः फलविपाकात् एतकं इदमेव चतुर्थ अब्रह्म| मैथुनमिति । सहितमनुजासुरस्य समाविषयिलोकस्य प्रार्थनीयं-अभिलषणीयं एवमिति प्रकारेण चिरपरिचित-चिरकालसेवितं सर्वहै जीवैरनुगतं चतुर्थ अब्रह्मनामकं चतुर्थ अधर्मद्वारं समाप्तं इति-परिसमाप्तौ ब्रविमीति पूर्ववत् तीर्थकरोपदेशेन न तु खबुद्धया ॥इति श्रीदशमाङ्गस्य प्रश्नव्याकरणनामरूपस्य । तुर्याश्रवस्य विवरणमेतल्लिखितं समासेन ॥१॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy