SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ प्रश्न व्याक रण ज्ञान वि० वृत्तिः ॥७९॥ %%%% | यगनिम्मल सुजायनिरुवहय देहधारी, कणगसिलातलपसत्थसमतल - उवइयविच्छिन्नपिहुलवच्छा, जुयसंनिभपी| रइयपीवर - पट्टसंठियसुसिलिट्ठ विसिहलह सुनिचित- घणथिरसुबद्धसंधी, पुरवरवरफलिहवहियभुया, भुय ईसरविपुल भोग आयाण- फलिउच्छूढदीहबाह, रत्ततलोवतिय-मउयमंसल सुजायलक्खणपसत्थ-अच्छिद्दजालपाणी मात्रिकौ प्रमाणयुक्तौ तथा मितौ दीर्घत्वेन मातृकौ - पंशुलिकादिभिः चउसट्ठि पिट्ठिकरंडया इत्यादिवचनात् पीनौ - पुष्टौ रचितौ कृतौ निर्माणनाम्ना पार्श्वो येषां ते तथा, अथवा मितौ मातृकौ एकार्थी शब्दौ इति अथवा तिदौ पार्श्वो येषां ते तथा । पुनः कीदृशाः ? अक| रण्डुकं मांसोपचितत्वेन अविद्यमानष्पृष्ठिपार्श्वास्थिकिकसं यथा भवति तद्वत् तथा कनकरुचकं स्वर्णाभरणं तद्वत् निर्मलं निरुपहतं रोगादि भिरनुपद्रुतं यत् देहं शरीरं तं धारयति ते तथा । कनकशिलातलमिव प्रशस्तं प्रधानं समतलं - अविषमरूपं उपचितं मांसलं विस्तीर्ण| विशालं पृथुलं गोपुरकपाटवत् वक्षो हृदयं येषां ते तथा । युगं - शकटाङ्गं तत् संनिभौ युपसदृशौ पीनौ-मांसेन पुष्टौ रतिदौ - रमणीयौ | पीवरौ - महान्तौ प्रकोष्ठौ कलाचिका देशौ तथा संस्थिता-विशेषसंस्थानवन्तः, सुश्लिष्टाः सुघटिता लष्टा - मनोज्ञाः सुष्ठु निचिता - घना नि | बिडाः स्थिरा निश्चलाः सुबद्धा वशांत्रादिभिः सुबद्धाः सन्धयोऽस्थिसन्धानानि येषां ते । पुरवर-फलिहनगरद्वारपरिघवद्वरार्गलावत् बचुलौवृत्तौ भुजौ - बाहू येषां ते तथा । भुजगेश्वराः - सर्पस्वामिनो शेषनागादयः तेषां यो विपुलो महान् विस्तीर्णो यो भोगः शरीरं कायस्तद्वत् | आदेयो रम्यो यः परिघाऽर्गला उछूढत्ति स्वस्थानादवक्षिप्तो निष्कासितस्तद्वद्दीर्घौ बाहूर्येषां ते तथा । रक्तं ताम्रं तलं अधोभागो यस्मिन् तादृशौ उपचितौ-मांसेन पुष्टौ मृदुकौ - कोमलौ मांसलौ सुजातौ सुनिष्पन्नौ लक्षणानि स्वस्तिकादीनि तैः कृत्वा प्रशस्तौ शोभनौ अच्छि - १ कलाइ भाषा अधर्मद्वारे माण्डलिक देवकुरूत्तर वर्णनं सू-१५ ॥७९॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy