________________
गढिया य अतिमुच्छिया य, अबंभे उस्सण्णा तामसेण भावेण अणुम्मुक्का, देसणचरित्तमोहस्स पंजरं पिव करेंति अन्नोऽन्नं सेवमाणा, __ भुजो असुर-सुर-तिरिय-मणुअ-भोगरतिविहारसंपउत्ता य चक्कवट्टी सुरनरवतिसक्कया, सुरवरुव्व देवलोए ।
इत्यादि भाषामुपजीव्य तेष्वेव प्रवर्तन्त इत्यतिमूच्छिताः, तद्धेतोः अब्रह्मणि अवसन्नाः शिथिलाः पङ्क इव निमग्नाः, तामसेन | भावेन अनुन्मुक्तास्तद्भावेनैव प्रवर्त्तमानाः ज्ञानभावेन रहिता इत्यर्थः, तादृशाः नराः दर्शनचारित्रमोहस्य-द्विरूपसकलमोहनीयकर्मणः पञ्जरं शकुनेबन्धनस्थानं, आत्मानं बन्धनस्थानं कुर्वन्ति-विदधति सूरादयः पूर्वोक्ता इति । अन्योन्यं परस्परं अब्रह्मसेवमानाः सन्तो ४ | भूयः पुनःपुनः असुरसुरतिर्यग्मनुष्येभ्यो ये भोगाः शब्दादयस्तेषु या रतिः-रागस्तत्प्रधाना ये विहारा:-क्रीडाविविधप्रकाराश्चेष्टास्तैः | संप्रयुक्ताः संयुता ये, ते के इत्याह-चक्रवर्तिनो राजातिशायिनः-ससागरां महीं मंडलिकत्वेन भुक्त्वा भरतवर्ष चक्रवर्तित्वेऽपि धीराः भोत्तण भारहवासं अतुलं शब्दादींश्चाऽनुभूय कामभोगेष्ववितृप्ता सन्तो मरणमुपनयन्ति इति संटङ्कः, के ते ? किंविधाः ? इत्याह-सूरेशेनरेशैः सत्कृताः पूजिताः के इव अनुभूयमाना इत्याह-सुरवरा इव देवप्रवरा इव यथा देवप्रवरा देवलोके सुखमनुभवन्ति तद्वत्तेऽपीति, भरतक्षेत्रसम्बन्धिनां नगानां-पर्वतानां, नगराणां-कररहितस्थानानां, निगमानां वणिगजनप्रधानस्थानानां, जनपदानां-देशानां, पुरवराणां-राजधानीरूपाणां, द्रोणमुखाना-जलस्थलपथयुक्तानां, खेटानां-धूलीपाकाराणां, कर्बटानांकुनगराणां, मडम्बानां-दुरस्थितसनिवेशान्तराणां, संवाहानां धान्यादिरक्षार्थ संवहनोचितदुर्गविशेषाणां, पत्तनानां जलपथस्थलपथयोरेकतरयुक्तानां, सहः मंडिता या सा तादृशी तां, अत्र चक्रवर्तिऋद्धिविस्तरस्तु ग्रन्थान्तरादबसेयः परं किञ्चिद् अत्र