________________
८१
उ०५ परीषह
सहनं धर्मकथाकथनं च।
लोगस्स जाणिचा पाईणं पडीणं दाहिणं उदीणं बाइक्खे, विमए कि वेयवी, से उठ्ठिएसु वा अणुट्ठिएसु वा सुम्सूसमाणेसुः पवेयए संतिं विरई उवसम निव्वाणं सोयं अजवियं मद्दवियं लापवियं अणइवत्तिय सम्वेसिं पाणाण सम्वेसिं भूयाणं सब्वेसि जीवाणं सम्वेसि सत्ताणं अणुवीह भिक्खू धम्ममाइक्खिज्जा"
से गिहेसु' इत्यादि-स पण्डितो मेघावी निष्ठिताओं वीरः एकाकिविहारितया प्रामानुग्रामं रीयमाणः परीषहोपसर्गापादितदुःखान् अधिसहेत | क स्थितस्योपसर्गा अभिपतेयुरिति दर्शयति-आहाराद्यर्थ प्रविष्टस्य गृहेषु वा, उच्चनी. चमध्यमावस्थासंसूचकं बहुवचनं, तथा गृहान्तरेषु वा, असन्ति बुद्ध्यादीन् गुणानिति ग्रामाः तेषु वा, तदन्तरालेषु वा, नगरेषु वा नगरान्तरालेषु वा, जनपदेषु-सा पञ्चविंशतिकेषु साधुविहारयोग्येषु, तदन्तरालेषु वा, तेषु विहारभूमिषु गतस्य गच्छतो वा, तदेवं तस्य भिक्षो मादीन् प्रविश्यमानस्य कायोत्सर्गादिकं कुर्वतः, 'संतेगइय 'दि-सन्ति-विद्यन्ते एकेकालुष्यहतोपहतबुद्धयो दुरात्मानो ये जनाः दुर्जनाः, किंविधाः? 'लूसगा'- लूषयन्तीति लूषका हिंसका भवन्ति । 'अदुव 'त्ति- अथवा तेषु प्रामादिषु स्थानेषु तिष्ठतो गच्छतो वा 'फासा' इति- स्पर्शा दुःखदायिनो स्पृशन्ति-अभिभवन्ति, तैश्च स्पृष्टः परीषहैः तान्स्पर्शान्-दुःखविशेषान् धीरोऽक्षोम्योऽधिसहेत, नरकादिदुःखमावनया तितिक्षेत । कीदृशोऽधिसहेत? इत्याह-'ओए समियदंसणे "ति-ओज-एको रागादिरहितत्वात् , सम्यग्दृष्टिः सम्यगितं प्राप्तं दर्शनं येनासौ समितदर्शनः । एवम्भृतः किमभिसन्ध्य धर्ममाचक्षीत ? दयां कृपां लोकस्य जन्तुलोकस्योपरि, द्रव्यतो ज्ञात्वा क्षेत्रतः प्राच्यादिदिग्विभागानभिसमीक्ष्य सर्वत्र दयां कुर्वन् धर्ममाचक्षीत । कालतो यावजीवं भावतोऽरक्तद्विष्टश्च । तथा
SHINGAARAKAR
KALA
१८॥
१६