________________
# १६३ ।।
"तं सुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया, तमेव सई असई अइअच्च उच्चावयफासे पढिसंवेएइ, बुद्धेहिं एवं पवेइयं-संति पाणा वासगा रसगा उदए उदएचरा आगासगामिणो, पाणा पाणे किलेसंति पास लोए महन्भयं "
' तं सुह ' इत्यादि - तं कर्म्मविपाकं यथावस्थितं तथैव ममावेदयतः शृणुत यूयं तदेव कर्म्मविपाकं सूत्रे गाह - ' संति पाणा' इत्यादि - सन्ति-विद्यन्ते प्राणाः प्राणिनो वा अन्धाः - चक्षुरिन्द्रियविकलाः, भावान्धा अपि सदसद्विवेक विकलाः, तमसि अन्धकारे नरकगत्यादौ । भावान्धकारेऽपि च मिथ्यात्वाविरतिप्रमादकषायादिके कर्म्मविपाकापादिते व्यवस्थिता व्याख्याताः । किञ्च - ' तमेव सइ मित्यादि - तामेवावस्थां कुष्ठाद्यापादितां एकेन्द्रियापर्याप्तकादिकां वा सकृदनुभूय कम्र्मोदयात्तामेवासकृदनेकशोऽतिगत्योच्चावच्चान्- तीव्रमन्दान् स्पर्शान् दुःखविशेषान् प्रतिसंवेदयति- अनुभवति । एतच्च बुद्धैः तीर्थकृद्भिः एतत् - अनन्तरोक्तं प्रवेदितं - कथितमित्याह - ' संति पाण 'त्ति - सन्ति विद्यन्ते प्राणाः प्राणिनो वासकाभाषालब्धिसम्पन्ना द्वीन्द्रियादयः । रसमनुगच्छतीति रसगाः कटुतिकादिरसवेत्तारः । उदके चरन्तीत्युदकचरा:- पूतरकमत्स्यकच्छपादयः । स्थलचारिणोपिऽजाविकादयोऽपि । आकाशे गमनं येषां तेऽप्याकाशगामिनः पक्षिणश्च । ' पाणापाणे ' ति- इत्येवं, सर्वेऽपि प्राणिनोऽपरान् प्राणिनः आहाराद्यर्थं मत्सरादिना वा क्लेशयन्त्युपतापयन्ति । यद्येवं ततः किमित्याह' पास लोए 'ति-पश्य अवलोकय लोके चतुर्दशात्मके कर्म्मविपाकात्सकाशात् महद् भयमित्याह -
" बहुदुक्खा हु जंतवो, सत्ता कामेसु माणवा, अचलेण वहं गच्छन्ति सरीरेण पभंगुरेण, अट्टे से बहु दुक्खे इइ बाले पकुव्वर, एए रोगा बहू नच्चा आउरा परियावए, नालं पास, अलं तवेएहि, एथं पास मुणी ! महव्भयं नाइवाइज्ज कंचणं "
उ० १
लोके
जीवानां
स्वरूपकथन म् ।
॥ १६३ ॥ .