________________
बाचाराङ्ग
सूत्रदीपिका
ज० ४ ॥ १२४ ॥
तत्रातीतकाले अनन्ता अपि सत्ये तस्युः । वर्चमाने पंचदशसु कर्म्मभूमिषु संख्येयास्तिष्ठन्ति । अनागतेऽपि अनन्ता अपि स्याम्यन्ति । तेषां चातीतानागतवर्त्तमानानां सत्यवतां यज्ज्ञानं-योऽभिप्रायः तददं कथयिष्यामि मवतां शृणुत यूयम् । किम्भूतानां तेषां वीराणामित्यादीनि विशेषणानि पूर्वोक्तार्थानि सुगमानि । किं भूतं ज्ञानमिति चेदाह - ' किमत्थि 'ति किं प्रश्न अस्ति-विद्यते कोऽसौ ? उपाधिः कर्म्मजनितविशेषरूपं, नद्यथा-नारकस्तिर्यग्योनः सुखी दुःखी सुभगो दुर्भगइत्यादि आहोस्विन विद्यते इति परमतमाशंक्य त ऊचुः, 'पासगस्स णत्थि - पश्यकस्य सम्यग्वादादिकमर्थं पूर्वोपात्तं पश्यतीति पश्यः पश्य एव पश्यकः तस्य कर्म्मजनितोपाधिर्न विद्यते इत्येतदनुसारेणाऽहमपि ब्रवीमि न स्वमनीषिकयेति । गतः सूत्रानुगमस्तद्गतौ च समाप्तञ्चतुर्थोद्देशक इति समाप्तं सम्यक्त्वाध्ययनं चतुर्थमिति । श्रीचन्द्रगच्छाम्भोजदिनमणीनां श्री महेश्वरसूरिसर्वसूरिशिरोमणीनां पट्टे श्री अजितदेवसूरिविरचितायां श्रीमदाचारांगदीपिकायां श्रीसम्यक्त्वाध्ययनं समाप्तम् ॥ उक्तं चतुर्थाध्ययनं, साम्प्रतं लोकसाराख्यं पंचमाध्ययनं प्रारभ्यते, तस्य षडद्देशकास्तस्यादिमं सूत्रम् -
“ आवंती केयावंती लोयंसि विप्परामुसंति अट्ठाए अणट्ठाए, एएसु चैव विप्परामुसंति, गुरू से कामा, तओ से मारस्ते, जयो से मारस्ते तथो से दूरे, नेव से अंतो नेव दूरे
מ
' आवंती ' इत्यादि - यावन्तः केचन लोके जीवा मनुष्या वा स्युः आरम्भप्रवृत्ताः, विपरामृशन्ति- विविधमनेकप्रकारं विपरामृशन्ति - उपतापयन्ति दण्डकशाताडनादिकैर्जीवान् घातयन्तीत्यर्थः । किमर्थ ! ' अट्ठाए 'ति- अर्थार्थ- अर्ध्यते धर्मार्थ कामरूपैरर्थ- प्रयोजनम्मुद्दिश्य प्राणिनो घातयन्तीति अर्थार्थ अर्थाद्वा । तत्र धर्मार्थं पृथ्व्यादिकं समारभते । अर्थार्थ
उ० ४
पश्य कस्य
नास्त्युपा
घिरिति
सूचनम् ।
॥ १२४ ॥