________________
श्री.
बाचाराङ्गछत्रदीपिका व०३
1526
अप्रमादिनो भयामाव इति सूचनम् ।
दर्शयति-'जे एग नामे 'त्यादि, यो हि प्रवर्द्धमानशुमाध्यवसाय: एक-अनन्तानुबन्धिनं क्रोधं नामयति-अपयति स बहूनापि मानमायादीन् नामयति । मोहनीयं चैकं यो नामयति स शेषा अपि प्रकृती मयति । यो वा बहून् स्थितिविशेषान्नामयति सोऽनन्तानुबन्धिनमेकं नामयति । अत उच्यते, यो बहुनामः स एव परमार्थत एकनामः । नाम इति क्षपकोऽभिधीयते उपशामको वा । मोहनीयसद्भावे च जन्तूनां बहुदुःखसंभव इति दर्शयति-'दुक्ख मित्यादि-दुःखमसातोदयं लोकस्य भूतग्रामस्य 'जाणित्ता'-ज्ञात्वा दुःखाभावो भवति तथा विदध्यादित्याह-'वन्ता' इत्यादि वान्त्वा-त्यक्त्वा लोकस्यआत्मव्यतिरिक्तस्य धनपुत्रशरीरादेः संयोग-ममत्वसम्बन्धं, यान्ति-गच्छन्ति के ? धीरा:-कर्मविदारणसमर्थाः महायानंमोक्षं, महच्च तद्यानं च महायानं, यदिवा महद्यान-सम्यग्दर्शनादित्रयं यस्य स महद्यानो-मोक्षस्तं यान्तीति । अवाप्तमहायानस्य तेनैव भवेन मोक्षावाप्तिरुत पारम्पर्येण । उभयथाऽपि ब्रमः। तद्यथा-'परेण परं जंति'-परेण-संयमेनोपदिष्टविधिना परं-स्वर्गादिकं प्राप्य पारम्पर्येणापवर्गमपि यान्ति । एवंविधाश्च कर्मक्षपणोधता जीवितं कियद्गतं किंवा शेषमित्येवं नावकांक्षन्ति दीर्घजीवितं नाभिलषन्ति, असंयमजीवितं वा नावकासन्तीति । यश्चानन्तानुबन्ध्यादिक्षपणोद्यतः स किमेकक्षयादेवापवर्चते उत नेत्याह- .
“एगं विगिचमाणे पुढो विगिचइ, पुढोवि एणं, सही आणाए मेहावी लोगं च आणाए अभिसमिचा अकुओमयं, अस्थि सत्यं परेण परं, नत्यि असत्थं परेण परं" .. 'एगे 'त्यादि-एकं- अनन्तानुबन्धादिकं को धपकण्यारूढः वपयन् 'पृथग्'-अन्यदपि दर्शनादिकं रुपयति ।
BREAKERASHASANSAR
ऊन
ल