________________
श्री सूत्रकृताङ्ग दीपिका
द्वि.श्रु.स्कन्धे प्रथमाध्ययनम्
अप्पिआओ अमणुण्णाओ अमणामाओ दुक्खाओ णो सुहाओ, एवामेव नो लद्धपुव्वं भवइ ॥३६॥
भोगा मे अहमपि भोगसंबंधी इति विचार्य स मेधावी पूर्वं आत्मना एवं समभिजानीयात्, तद्यथा- इह जन्मनि मम अन्यतरत् दुःखं शिरोवेदनादिकं, आतंको वा आशुजीवितापहारी शूलादिकः, स किंभूतः? अनिष्टो, अकांतो, अप्रियो, अशुभो, अमनोज्ञः, अवनामयतीति अवनाम: पीडाविशेषकारी दुःखरूपः, न शुभो अशुभकर्मकृतत्वात्, पुनर्युःखोपादानं अत्यंत दु:खज्ञापनार्थं, तदेवंभूतं दुःखं रोगातकं वा, ‘हंत इति खेदे', हे भगवंत:! कामभोगा! यूयं मया पालिता, तात! यूयमपि इदं दुःखं रोगातर्फ वा परियाइयहविभज्य गृह्णीत, अत्यंत दुःखपीडित: पुन: तान्येव विशेषणानि आह- अनिष्टमित्यादि पूर्ववत्, इत्यतो दुःखात् मां प्रतिमोचयत, अनिष्टादिविशेषणानि पूर्वं प्रथमान्तानि, पुनः द्वितीयान्तानि, साम्प्रतं पञ्चम्यन्तानि, स चायमर्थः पूर्वं लब्धो न भवति, कोऽर्थः?, नहि ते भोगादयो नरं दुःखात् मोचयन्ति, इति पूर्वं न ज्ञातं ॥३६।। एतदेवाह
इह खलु कामभोगा णो ताणाए वा सरणाए वा, पुरिसो वा एगया पुव्विं कामभोगे विप्पजहइ, कामभोगा वा एगया ऍव्विं पुरिसं विप्पजहंति, अण्णे खलु कामभोगा अण्णो अहमं सि, से किमंग पुण वयं अण्णमण्णेहिं कामभोगेहिं मुच्छामो? इति संखाएणं वयं कामभोगे विप्पजहिस्सामो, १B 'पुब्विं' नास्ति
KAKKHTAKANKSHAKAKKAKKARS