________________
श्री सूत्रकृताङ्गदीपिका
द्वि.श्रु.स्कन्धे सप्तमाध्ययनम्
उदको गौतमस्वामिनमाह- यथा एतेषां पदानां पूर्वम् अज्ञाततया, अश्रवणतया अनाकर्णनेन, अबोध्या श्रवणेऽपि अनवबोधात्, अनभिगमेन बोधेऽपि सम्यग् अप्रतिपत्या, अदृष्टानां अनिhढानां स्थिरतया अस्थापितानां, अनुपधारितानां अनवधारितानां वा अनिर्णीतानां न श्रद्धानं कृतवान्, न प्रत्ययं न रुचिं च कृतवान्, इदानीं तु युष्मदन्तिके श्रुत्वा ज्ञात्वा च दृष्टादिविशेषणविशिष्टानां पदानाम् एनमर्थं श्रद्दधे अहम्, प्रत्ययं रुचिं च करोमि, एवमेतद् यथा यूयं वदत (थ?)॥३८॥
तएणं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी -सद्दहि अजो! पत्तियाहि अजो! रोएहि अजो! एवमेयं जहा णं अम्हे वयामो, तएणं से उदए पेढालपुत्ते भगवं गोयमं एवं वयासी- इच्छामि णं भंते! तुम्हं अंतियं चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्मं उवसंपजित्ता णं विहरित्तए।।३९॥
ततः श्रीगौतम उदकम् एवमवादीद्, यथा- अस्मिन् अर्थे श्रद्धानं कुरु, हे आर्य! प्रत्ययं रुचिं च कुरु, एवमेतद्यथा वयं वदामः तथा त्वं प्रत्येहि, ततः स उदकः श्रीगौतमम् एवमवादीत्- इच्छामि अहं भदन्त! युष्मत्समीपे चातुर्यामिकात् चतुव्रतरूपाद् धर्मात् पञ्चयामिकं पञ्चमहाव्रतरूपं सप्रतिक्रमणं धर्मम् उपसंपद्य स्वीकृत्य विहर्तुमिति।।३९।।। १JAM तुम्भं