________________
श्री सूत्रकृताङ्गदीपिका
संपहारेत्थ गमणाए || ३६ ||
गौतमस्वामी आह- आयुष्मन् उदक! यः खलु श्रमणं यथोक्तक्रियाकारिणं माहनं वा सद्ब्रह्मचर्योपेतं परिभाषते - मैत्रीं मन्यमानोऽपि निन्दति सम्यग्ज्ञानं दर्शनं चारित्रं च आगम्य प्राप्य पापकर्मणाम् अकरणाय उत्थितः स खलु तुच्छप्रकृतिः पण्डितंमन्यः परलोकस्य सद्गतेः पलिमन्थाय विघाताय तिष्ठति, यः पुनर्महासत्वः सागरवद् गम्भीरः श्रमणादीन् न परिभाषते न निन्दति तेषु च परमां मैत्र मन्यते, सम्यग्ज्ञानादीनि अनुगम्य पापकर्मणां अकरणाय उत्थितः स खलु परलोकविशुद्ध्या तिष्ठति, अनेन वाक्येन परनिन्दावर्जनाद् यथास्थितार्थकथनेन श्रीगौतमः स्वौद्धत्यं परिहरति स्म, एवं श्री गौतमेन यथास्थितार्थं ज्ञापितोऽपि उदको यदा गौतमं अनाद्रियमाणो यस्या एव दिशः प्रादुर्भूतः तामेव दिशिं गमनाय प्रधारितवान् चिन्तितवान्॥ ३६ ॥ तदा गौतमः प्राह
भगवं च णं उदाहु- आउसंतो उदगा! जे खलु तहाभूअस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म अप्पणो चेव सुहुमाए पडिलेहाए अणुत्तरं खेप भए समाणे सो वि ताव तं आढाइ परिजाणइ वंदइ नमसइ जाव कल्लाणं मंगलं
१ BD अप्पणा
द्वि.. स्कन्धे सप्तमाध्ययनम्