________________
गौतमस्वामी उदकं प्राह-नैतद् भूतं, नैतद् भाव्यं, नैतद् भविष्यति यत् त्रसा: सर्वे उच्छेत्स्यन्ति, वसा एव भविष्यन्ति, एतद् र द्वयं न संभवति, नहि कदापि एवं सम्भवोऽस्ति यत्प्रत्याख्यानिनम् एकं विहाय अन्येषां नारकाणां द्वीन्द्रियादितिरश्चां मनुष्याणां देवानां च सर्वथाऽपि अभावः, एवं हि सप्रत्याख्यानं निर्विषयं स्याद् यदि प्रत्याख्यानिनो जीवत एव नारकाद्यास्त्रसा: समुच्छिद्यन्ते, न चायं प्रकार: सम्भवी, स्थावराणां च अनन्तत्वात् न असङ्ख्येयेषु त्रसेषु उत्पादसंभवः, एवं सति यद् वदथ यूयं अन्यो वा वदतिनास्त्यसौ पर्यायो यत् श्रावकस्य एकत्रसविषयो दण्डत्याग इति, तदेवं त्वदीयं प्रेर्यं सर्वमशोभनमिति॥३५॥ अथ उपसंहारमाह
भगवं च णं उदाह- आउसंतो उदगा! जे खलु समणं वा माहणं वा परिभासइ मेत्तिं मन्नइ आगमेत्ता नाणं आगमेत्ता दंसणं आगमेत्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगपलिमंथत्ताए चिट्ठइ, जे खलु समणं वा माहणं वा नो परिभासइ मित्तिं मन्नइ आगमित्ता (नाणं आगमित्ता दंसणं आगमित्ता चरित्तं) पावाणं कम्माणं अकरणयाए से खलु परलोगविसुद्धीए चिट्ठइ, तएणं से उदए पेढालपुत्ते भगवं गोयमं अणाढायमाणे जामेव दिसं पाउन्भूए तामेव दिसं
॥१३९॥