SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ भगवान् गौतमः प्राह- निर्ग्रन्थाः प्रष्टव्याः, इह खलु गृहपतयो वा गृहपतिपुत्रो वा तथाप्रकारेषु श्रेष्ठकुलेसु उत्पद्य धर्मश्रवणार्थं आगच्छेयु:, तेषां धर्म आख्यातव्य? इति पृष्टे श्रमणा आहुः, हन्त आख्यातव्यः, किं ते तथाप्रकारं शुद्धं धर्मं श्रुत्वा एवं वदेयु:इदमेव निर्ग्रन्थसम्बन्धि प्रवचनं सत्यं यावत् सर्वदुःखप्रहीणमार्गः, इत्थं त्ति- अत्र स्थिता जीवा: सिध्यन्ति यावत्सर्वदुःखानामन्तं कुर्वन्ति, तदाज्ञया तथा गच्छाम: तथा चेष्टामहे यावत् तथा उत्थया प्रयत्नेन प्राणिनां संयमेन हिंसानिवृत्त्या संजमामो संयम कुर्मो यथा जिनाज्ञा, एवं ते वदेयुः? इति पृष्टे श्रमणा आहुः, हन्त वदेयुः, पुनः श्रमणान् पृच्छति किं ते तादृशा योग्या: कल्पन्ते प्रव्राजयितुम्? श्रमणा आहुः - हन्त कल्पन्ते इत्यादि, तेसिं च णंत्ति तैः तथाविधैः सर्वजीवेभ्यो दंडस्त्यक्तः, एवंविधाः ते विहरन्तो वर्षाणि चत्वारि पञ्च वा षड् दश वा अल्पतरं बहुतरं वा कालं देशग्रामादौ उद्यतविहारेण विहृत्य पश्चात् पतितपरिणामा: सन्तो अगारं व्रजेयुः? गृहस्था भवेयुरित्यर्थः, निर्ग्रन्था पृष्टा उत्तरमाहुः, हन्त व्रजेयुः, तेषां सर्वप्राणिभ्यो दंडो नो निक्षिप्तः, तेषां अवस्थात्रयम् आह- पूर्वं गृहस्थत्वे सर्वजन्तुवधो न त्यक्तः, अथ य: स साधुत्वे सर्वजन्तुवधः तेन त्यक्तः, पुनः साधुत्वं मुक्त्वा इदानी गृहस्थे जाते सर्वजन्तुवधो न त्यक्तः, पूर्वम् असंयत:१ आरत: संयत:२ इदानीम् असंयतः३, असंयतस्य सर्वजन्तुवधो न त्यक्तः, तदेवं जानीत निर्ग्रन्थाः, तदेवं आज्ञातव्यं, एवं यथा अवस्थात्रयेऽपि अन्यथात्वं स्याद्, एवं त्रसस्थावरयोः अपि ज्ञेयम्॥१५॥ १Poपुत्रा वा २B चेष्टामो ॥१३१॥
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy