________________
श्री सूत्रकृताङ्गदीपिका
KOLKAKKAKKASH
एके सत्त्वा: कर्मोदयात् नानाविधानां त्रसस्थावराणां देहेषु सचित्तेषु अचित्तेषु वा अग्नित्वेन विवर्त्तन्ते प्रादुर्भवन्ति, तथा । हि- पञ्चेन्द्रियतिरश्चां दन्तिमहिषादीनां परस्परं युद्धावसरे दन्तश्रुङ्गयोगे अग्नि: उत्पद्यते, एवं अचित्तेषु अपि तदस्थिघर्षणाद् अग्ने: उत्पत्तिः से द्वि.श्रु.स्कन्धे विकलेन्द्रियशरीरेषु अपि यथासम्भवं योज्यं, स्थावरेषु वनस्पतिपाषाणादिषु सचित्ताचित्तेषु अग्निजीवाः समुत्पद्यन्ते, ते च तत्रोत्पन्नाः
तृतीयमध्ययनम् तेषां त्रसंस्थावराणां स्नेहमाहारयन्ति, शेषं सुगमम्, अन्ये त्रयोऽपि आलापका उदकवद् द्रष्टव्या:॥२८॥ अथ वायुकायमाह
अहावरं पुरक्खायं- इहेगइया सत्ता नाणाविहजोणिया जाव कम्मनिदाणेणं तत्थवुक्कमा नाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा वाउकायत्ताए विउटुंति, जहा अगणीणं तहा भाणियव्वं चत्तारि गमा।।२९॥ इदम् अग्निकायवद् व्याख्येयम् ॥२९॥ अथ पृथिवीकायमाह- अहावरं पुरक्खायं- इहेगइया सत्ता नाणाविहजोणिया जाव कम्मनिदाणेणं तत्थवुक्कमा नाणाविहाणं तसथावराणं (पाणाणं) सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए सक्करत्ताए, इमाओ गाहाओ अणुगंतव्वाओ