SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्गदीपिका न चोपलभ्यते चौरः, ततः पञ्चमदिने तांबूलपुष्पादि गृण्हन् रात्रौ नृपेण दृष्टः परिव्राट्, तत्पृष्टगामिना राज्ञा नगरोद्यानवृक्षकोटरप्रवेशेन गुहाभ्यंतरे प्रविश्य हतः सः, ततः समर्पितं यद्धनं यस्य सत्कं स्त्रियोऽपि तत्र एका कामिनी अत्यन्तं औषधैः भाविता नेच्छति स्वपतिमपि, ततः प्राज्ञैरुक्तं, अस्याः चौरास्थीनि दुग्धेन सह संघृष्य यदि दीयन्ते तदाऽसौ तदाग्रहं मुञ्चति, ततः स्वजनैः एवं कृतम्, यथा यथा चासौ तदस्थीनि भक्षयति तथा स्नेहो याति, सर्वास्थिपाने च गतः सर्वोऽपि चौरस्नेहः, अनुरक्ता अभूत् निजे भर्तरि तदेवं यथा सा अत्यन्तं भाविता तेन परिव्राजा न इच्छति अपरं तथा श्रावका अपि नितरां भाविता: शासने न शक्यन्ते अन्यथाकर्तुम्, अत्यन्तं सम्यक्त्वौषधभावितत्वादिति, श्रावकाः किम्भूताः ?, अयमाउसो त्ति- इदं आयुष्मन् ! जैनं शासनं अर्थ: तत्त्वभूतं, अयमेव परमार्थः शेषो अनर्थ इति चिन्तयन्तः तथा चतुर्दश्यष्टम्यादिषु तिथिषु प्रतिपूर्णं पौषधम् अनुपालयन्त:, ऊसियफलिहत्ति - उच्छ्रितान स्फटिकानि (इव) चित्तानि येषां ते तथा, वर्द्धमानपरिणामा इत्यर्थः, अवंगुयदुवारत्ति - अप्रावृतानि द्वाराणि येषां ते तथा, सन्मार्गलाभात् न कुतोऽपि भयं कुर्वन्ति इति उद्घाटितद्वारा:, अचियत्त त्ति- अचियत्तो अनभिमतो अन्तःपुरप्रवेशवद् परगृहे प्रवेशो येषां ते तथा, श्रमणान् निर्ग्रन्थान् प्रासुकेन एषणीयेन अशनादिना वस्त्र- प्रतिग्रह- कंबल - पादपुञ्छनेन औषध भेषजेन पीठ - फलक- शय्या-संस्तारकेण प्रतिलाभयन्तः बहुभिः शीलव्रत-गुण-विरमण - प्रत्याख्यान- पौषधोपवासैः यथापरिगृहीतैः तपःकर्मभिः आत्मानं भावयन्तः १ 'शीलव्रतानि अणुव्रतानि गुणा गुणव्रतानि विरमणानि' इति औपपातिकसूत्रवृत्ती भगवतीसूत्रवृत्ती च द्वि. शु. स्कन्धे द्वितीयमध्ययनम्
SR No.600365
Book TitleSutrakritang Sutra Dipika Dwitiya Vibhag
Original Sutra AuthorN/A
AuthorHarshkulgani
PublisherJinshasan Aradhana Trust
Publication Year1993
Total Pages300
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy